पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/४८

पुटमेतत् सुपुष्टितम्
२८
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

व्यः । अपूर्वाभिधानलाभार्थत्वं त्वयुक्तमभिधानकोशस्य, अप्रयुक्तस्याप्रयोज्यत्वात् । यदि प्रयुक्तं प्रयुज्यते तर्हि किमिति संदिग्धार्थत्वमाशङ्कितं पदस्य? तन्न; तत्र सामान्येनार्थावगतिः संभवति । यथा नीवी शब्देन जघनवस्त्रग्रन्थिरुच्यत इति कस्यचिन्निश्चयः । स्त्रिया वा पुरुषस्य वेति संशयः 'नीवी संग्रथनं नार्या जघनस्थस्य वाससः' इति नाममालाप्रतीकमपश्यत इति । अथ कथम्

  'विचित्रभोजनाभोगवर्धमानोदरास्थिभिः।
  केनचित्पूर्वमुक्तोऽपि नीवीबन्धः श्लथीकृतः॥'

 इति प्रयोगः ? भ्रान्तेरुपचाराद्वा ।

 रभिधानकोशपरिशीलनमन्तरेण संदिग्धार्थतया प्रयोक्तुं परित्यक्तुं वा नोत्सहते । अतो बन्धविघ्नो जायेत । तस्मादभिधानकोशतः पदस्यार्थं निश्चित्य निर्विचिकित्सं प्रयुञ्जीत- इति । नन्वभिधानकोशस्येदमेव प्रयोजनमिति कोऽयं नियमः । अपूर्वपदप्रयोगलाभोऽपि किं न स्यादिति चोद्यमनूद्यावद्यति --- अपूर्वेति। तत्र हेतुमाह-- अप्रयुक्तस्येति । कविभिरिति शेषः । “यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते' इत्यप्रयुक्तत्वदोषस्य पददोषेषु लक्षितत्वात् । अप्रयोज्यत्वं चार्थाभिव्यक्त्तेरविलम्बेन समर्पकत्वाभावादिति द्रष्टव्यम् । ननु यदि प्रयुक्तमेव पदं कविना प्रयुज्येत, तर्हि कुतः संदेहः स्यादिति शङ्कते- यदीति । समाधत्ते- सामान्येनेति । 'एषा हि मे रणगतस्य दृढा प्रतिज्ञा द्रक्ष्यन्ति यन्न रिपवो जघनं हयानाम्' इति प्रयोगदर्शनात् जघनशब्दः पृष्ठवंशाधरत्रिकमात्रमभिधत्त इत्यभिमन्यमानस्य कस्यचिन्नीवीशब्दो जघनवस्त्रग्रन्थिमभिधत्त इति प्रतिपत्तिर्जायते । तच्च स्त्रिया वा पुरुषस्य वेति संशय उपपद्यत इत्यर्थः । नाममाला अभिधानकोशः, तस्याः प्रतीकं अवयवम् । 'अङ्गं प्रतीकोऽवयवः' इत्यमरः । अपश्यतः अपरिशीलयत इति यावत् । यद्येवं तर्हि प्रयोगविरोधः किं न स्यादिति शङ्कते---- अथ कथमिति । विचित्रभोजनाभोगेत्यस्मिन् पद्ये पुंसि विषये नीवीशब्दप्रयोगः कथमिति शङ्कितुरभिप्रायः । परिहरति---भ्रान्तेरिति । भ्रान्तिप्रयुक्तोऽयं प्रयोगः । अथवा, नीवीशब्दः पुरुषविषये लक्षणया प्रयुक्तः । पौरुषराहित्यप्रतिपत्तिः प्रयोजनमिति भावः ॥