पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/५१

पुटमेतत् सुपुष्टितम्
[अ. ३.
३१
कामधेनुसहिता।

नीतेः आवलीयस्वादिप्रयोगव्युत्पत्तिमूलत्वात्तस्याः । एवमन्यासामपि विद्यानां यथास्वमुपयोगो वर्णनीय इति ।

लक्ष्यज्ञत्वमभियोगो वृद्धसेवावेक्षणं प्रतिभानमवधानं च प्रकीर्णम् ॥ ११ ॥

तत्र काव्यपरिचयो लक्ष्यज्ञत्वम् ॥ १२ ॥

 अन्येषां काव्येषु परिचयो लक्ष्यज्ञत्वम् । ततो हि काव्यबन्धस्य व्युत्पत्तिर्भवति ॥

काव्यबन्धोद्यमोऽभियोगः ॥ १३ ॥

 बन्धनं बन्धः । काव्यस्य बन्धो रचना काव्यबन्धः । तत्रोद्यमोऽभियोगः । स हि कवित्वप्रकर्षमादधाति ।

काव्योपदेशगुरुशुश्रूषणं वृद्धसेवा ॥ १४ ॥

 काव्योपदेशे गुरव उपदेष्टारः । तेषां शुश्रूषणं वृद्धसेवा । ततः काव्यविद्यायाः संक्रान्तिर्भवति ।

दयः तेषां व्युत्पत्तौ सा दण्डनीतिर्मूलमिति भावः । एवमन्यासामिति । गणितादिविद्यानामित्यर्थः । एवमष्टादशभेदभिन्नानामशेषाणामपि विद्यानां काव्याङ्गत्वमुक्तं भवति । तासामुपयोगश्च यथाम्बं लब्धवर्णैर्द्रष्टव्यः ! यथाहुः, 'न स शब्दो न तद्वाच्यं न सा विद्या न सा कला । जायते यन्न काव्याङ्गमहो भारो गुरुः कवेः ।' इति ।

 अन्येषामिति । कवीनामिति शेषः ।

 बन्धशब्दो भावसाधन इत्याह -- बन्धनं बन्ध इति। पूर्वं कथापरीक्षा, तत्राधिकावावापोद्वापौ, फलपर्यन्ततानयनम् , रसं प्रति जागरूकता, रसोचितविभावादिवर्णनायामलंकारौचित्यमित्याद्युल्लेखपूर्वकं गुम्फनं काव्यबन्धः । तत्रोद्यमः अभियोगः ॥

{{gap}}काव्योपदेश इति । यद्यपि श्रोतुमिच्छा शुश्रूषा इति शब्दव्युत्पत्तिः;