पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/५२

पुटमेतत् सुपुष्टितम्
३२
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

पदाधानोद्धरणमवेक्षणम् ॥ १५ ॥

पदस्य आधानं न्यासः । उद्धरणमपसारणम् । तयोः खल्ववेक्षणम् ।

अत्र श्लोकौ-

  'आधानोद्धरणे तावद्यावद्दोलायते मनः ।
  पदस्य स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ॥

  यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् ।
  तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ॥'

कवित्वबीजं प्रतिभानम् ॥ १६ ॥

 कवित्वस्य बीजं कवित्वबीजं जन्मान्तरागतसंस्कारविशेषः कश्चित् ; यस्माद्विना काव्यं न निष्पद्यते, निष्पन्नं चावहासायतनं स्यात् ।

चित्तैकाग्र्यमवधानम् ॥ १७ ॥

तथापि वरिवस्या तु शुश्रूषा परिचर्याप्युपासनम्' इति निरूढत्वेनाभिधानात्सामानाधिकरण्यं घटते ।

 अवेक्षणमाह-- पदाधानेति । अत्र भामहेन भणितं प्रमाणयति- आधानोद्धरणे इति । श्लोकद्वयेन क्रमादन्वयव्यतिरेकाभ्यां पदानां स्थैर्यं संपादनीयमित्युक्तम् । इत्थमर्थपाकोऽपि समर्थनीयः ।

 कवित्वस्येति । बीजमभिनवपदार्थस्फुरणहेतुः । संस्कारो वासनात्मा । यदाह भट्टगोपालः, 'कवित्वस्य लोकोत्तरवर्णनानैपुणलक्षणस्य, बीजमुपादानस्थानीयः, संस्कारविशेषः कार्यकल्पनीया काचिद्वासना शक्तिः' इति । काव्यादर्शेऽपि 'न विद्यते यद्यपि पूर्ववासना गुणानुबन्धि प्रतिभानमद्भुतम् ।' इति । यस्माद्विनेति । पृथग्विनादिसूत्रे विकल्पेन तृतीयाविधानात् पक्षे पञ्चमी । हासायतनं परिहासास्पदम् । तादृशं हि काव्यमनर्थाय भवति कवेः । तदुक्तम् , 'नाकवित्वमधर्माय मृतये दण्डनाय वा । कुकवित्वं पुनः साक्षान्मृतिमाहुर्मनीषिणः ॥ इति ।