चित्तस्यैकाग्र्यं बाह्यार्थनिवृत्तिः। तत् अवधानम् । अवहितं हि चित्तमर्थान्पश्यति ।
तद्देशकालाभ्याम् ॥ १८॥
तत् अवधानं देशात्कालाच्च समुत्पद्यते ।
कौ पुनर्देशकालावित्यत्राह-
विविक्तो देशः ॥ १९ ॥
विविक्तो निर्जनः ।
रात्रियामस्तुरीयः कालः ॥ २०॥
रात्रेर्यामो रात्रियामः प्रहरः तुरीयश्चतुर्थः काल इति । तद्वशाद्विषयोपरतं चित्तं प्रसन्नमवधत्ते।
एवं काव्याङ्गान्युपदर्श्य काव्यविशेषज्ञानार्थमाह-
चित्तस्येति । बहिरिन्द्रियव्यापारविरामान्मनसो बाह्यार्थानुपरक्तिरवधानम् । अवधानस्य प्रयोजनमभिधत्ते--- अवहितमिति । अर्थान्पश्यति अभिनवपदार्थानप्रतिबन्धमुल्लिखतीत्यर्थः ॥
तद्देशकालाभ्यामिति। अर्थाद्विशिष्टाभ्यां समुचिताभ्यामित्यवगन्तव्यम् ।
विविक्तो निर्जनप्रदेशः । ’विविक्तौ पूतविजनौ' इत्यमरः ॥
तुरीय इति। प्रथमादिषु त्रिषु प्रहरेष्वाहारविहारनिद्रासु सांमुख्यं मनसः। पश्चिमे तु प्रहरे प्रसादः संभवतीति तुरीय इत्युक्तम् । यद्वा, यद्यपि प्रथमादीनामपि चतुःसंख्यापूरकत्वम्, तथाप्युपादानसामर्थ्यादिह पश्चिमो यामस्तुरीय इति गम्यते । तथा च कालिदासः, 'पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना।' इति । माघोऽपि 'गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ।' इति ।
वृत्तवर्तिष्यमाणयोः संगतिमुल्लिङ्गयन् , काव्यभेदान् कथयितुमाह-- एवमिति । गद्यमिति । 'गद व्यक्तायां वाचि' इति धातोः 'गदमदचरयमश्चा-