पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/५६

पुटमेतत् सुपुष्टितम्
३६
[अधि. १.
काव्यालंकारसूत्रवृत्तिः।

 पद्यं खल्वनेकेन समार्धसमविषमादिना भेदेन उपेतं भवति ।

तदनिबद्धं निबद्धं च ॥ २७ ॥

 तदिदं गद्यपद्यरूपं काव्यमनिबद्धं निबद्धं च । अनयोः प्रसिद्धत्वाल्लक्षणं नोक्तम् ।

क्रमसिद्धिस्तयोः स्रगुत्तंसवत् ॥ २८ ॥

 तयोरित्यनिबद्धं निबद्धं च परामृश्यते । क्रमेण सिद्धिः क्रमसिद्धिः। अनिबद्धसिद्धौ निबद्धसिद्धिः स्रगुत्तंसवत् । यथा स्रजि मालायां सिद्धायामुत्तंसः शेखरः सिध्यति ।

 पद्यं विभजते--- समेति । समवृत्तमर्धसमवृत्तं विषमवृत्तम् । आदिशब्देनार्यावैतालीयादिमात्रावृत्तानां परिग्रहः । सप्रवृत्तादिलक्षणमुक्तं भामहेन, 'सममर्धसमं वृत्तं विषमं च त्रिधा मतम् । अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः। तच्छन्दःशास्त्रतत्त्वज्ञाः समवृत्तं प्रचक्षते । प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते । यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥' इति ।

 गद्यपद्ययोरुभयोरप्यवान्तरभेदावाह-- तदिति । गद्यपद्यात्मकं काव्यं प्रकृतं तच्छब्देन परामृश्यत इति व्याचष्टे-- तदिदं गद्यपद्यरूपमिति । व्याख्याने जाड्यमव्याख्याने मौढ्यमित्यत आह-- अनयोः प्रसिद्धत्वादिति । अनिबद्धं मुक्तकं निबद्धं प्रबन्धरूपमिति प्रसिद्धिः । मुक्तकलक्षणमुक्तं भामहेन, 'प्रथमं मुक्तकादीनामृजु लक्षणमुच्यते । यदेव गाम्भीर्यौदार्यशौर्यनीतिमतिस्पृशा। भवेन्मुक्तकमेकेन द्विकं द्वाभ्यां त्रिकं त्रिभिः ॥' इति । निबद्धानि सर्गबन्धादीनि । तल्लक्षणं काव्यादर्शे, 'सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम्' इत्यादिना द्रष्टव्यम् ।

 अनयोरभ्यासक्रममाह--- क्रमसिद्धिरिति । अनिबद्धमभ्यस्य निबद्धरचनायां यतितव्यमित्यर्थः । अत्र दृष्टान्तः स्रगुत्तंसवत्' इति ।