स्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु' इति दुका भवितव्यमिति ।
श्रुतिविरसं कष्टम् ॥ ६॥
श्रुतिविरसं श्रोत्रकटु पदं कष्टम् । तद्धि रचनागुम्भितमप्युद्वेजयति ।
यथा- 'अचूचुरच्चण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदः शशाङ्कः।'
लोकमात्रप्रयुक्तं ग्राम्यम् ॥ ७॥
लो एव यत्प्रयुक्तं पदम् , न शास्त्रे; यत् ग्राम्यम् ।
यथा-- 'कष्टं कथं रोदिति फूत्कृतेयम् ।' अन्यदपि तल्लगल्लादिकं द्रष्टव्यम् ।
शास्त्रमात्रप्रयुक्तमप्रतीतम् ॥ ८॥
'अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु' इति आशीरादिषु परतोऽन्यपदस्य दुगागमेन भवितव्यम् । स तु न कृतः; 'दुगागमोऽविशेषेण वक्तव्यः कारकच्छयोः । षष्ठीतृतीययोर्नेष्ट आशीरादिषु सप्तसु ॥' इति कारकपदे परतो दुगागमो नियत इत्यन्यकारकपदमसाधु ।
श्रोत्रकट्विति । कर्णोद्वेगकरमित्यर्थः । यदुक्तं भामहेन 'संनिवेशविशेषात्तु तदुक्तमभिशोभते ।' इति, तन्निराचष्टे--- तद्धीति । विशिष्टसंदर्भगर्भगतमपि सहृदयहृदयोद्वेगमाविर्भावयतीत्यर्थः । अचूचुरदिति । अत्र द्रागिति पदं कष्टम् ।
ग्रामे भवं प्राम्यमिति व्युत्पत्तिः; लोकमात्रसिद्धमित्यर्थः । कष्टामिति । अत्र फूत्कृतेति पदं ग्राम्यम् , तस्य काव्ये प्राचुर्येण प्रयोगादर्शनात् । [१] ताम्बूल-
- ↑ गल्लपदं कपोलार्थकम् । तल्ल अल्पमिति केचित् । तल्लशब्दस्तडागवाचीति कश्चित् । 'भल्लम्' इति भूयसां पाठः । 'भल्ल भद्रम्' इति, 'भल्लं समीचीनम्' इति च प्रकाशव्यख्यातार:।