पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/६२

पुटमेतत् सुपुष्टितम्
४२
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

 शास्त्र एव प्रयुक्तं यत् , न लोके ; तत् अप्रतीतम् ।

यथा--

  'किं भाषितेन बहुना रूपस्कन्धस्य सन्ति मे न गुणाः।
  गुणनान्तरीयकं च प्रेमेति न तेऽस्त्युपालम्भः ॥'

  अत्र रूपस्कन्धनान्तरीयकपदे न लोक इत्यप्रतीतम् ॥

पूरणार्थमनर्थकम् ॥ ९॥

 पूरणमात्रप्रयोजनमव्ययपदमनर्थकम् । दण्डापूपन्यायेन पदमन्यदप्यनर्थकमेव ।

भृतगल्लोऽयं तलं जल्पति मानवः' इत्यादौ यत् तल्लगल्लादिपदं प्रयुज्यते, तदपि ग्राम्यं द्रष्टव्यम् ।

 किं भाषितेनेति । इयं हि कस्याश्चिद्विप्रलब्धायाः शठनायकं प्रत्युक्तिः। [१] रूपविज्ञानवेदनासंज्ञासंस्कारलक्षणाः पञ्च स्कन्धाः सौगतमते प्रसिद्धाः । अत्र विषयेन्द्रियलक्षणस्य रूपस्कन्धस्य गुणा मे न सन्ति । गुणनान्तरीयकम् , अन्तरशब्दोऽत्र विनार्थः । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च' इत्यमरः । न अन्तरं नान्तरम् । ततो भवार्थे छप्रत्यये स्वार्थिके च कप्रत्यये सति नान्तरीयकमिति रूपं सिद्धम् । अविनाभूतमित्यर्थः । प्रेम च गुणनान्तरीयकमिति हेतोः, उपालम्भो निन्दावचनम् , ते तव नास्ति । व्यापकपरावृत्तौ व्याप्यपरावृत्तिरुचितेति भावः । अत्र रूपस्कन्धनान्तरीयकपदे अप्रतीते।

 पूरणार्थमिति। पूरणं पादपूरणम् अर्थः प्रयोजनं यस्येति विग्रहः। दण्डापूपेति । दण्डप्रोता अपूपा दण्डापूपाः । तथा च दण्डानयनप्रेरणायां दण्डानयनेनैवापूपानयने सिद्धे पुनरपूपानयनप्रेरणं व्यर्थमिति दण्डापूपन्यायः । अथवा, अपूपदण्डो मूषकैर्भक्षित इत्युक्ते पुनरपूपभक्षणप्रश्नवचनं व्यर्थमिति दण्डापूपन्यायः । तन्न्यायेन चादीनामसत्त्ववचनानामसत्यपि प्रयोगे तदर्थस्यान्यतोऽवग-

  1. 'विज्ञान वेदना सज्ञा सस्कारा रूपमेव च । भिक्षूणां शाक्यसिंहेन स्कन्धा पञ्च प्रकीर्तिताः।’