यथा-- 'उदितस्तु हास्तिकविनीलमयं तिमिरं निपीय किरणः सविता।
अत्र तुशब्दस्य पादपूरणार्थमेव प्रयोगः ।
न वाक्यालङ्कारार्थम् ॥ १०॥
अपवादार्थमिदम् ।
वाक्यालङ्कारप्रयोजनं तु नानर्थकम् ।
यथा-- 'न खल्विह गतागता नयनगोचरं मे गता' इति । तथा हि खलु हन्तेति ।
संप्रति पदार्थदोषानाह--
अन्यनेयगूढार्थाश्लीलक्लिष्टानि च ॥ ११ ॥
दुष्टं पदमित्यनुवर्तते । अर्थाच्च विभक्तिविपरिणामः । अन्यार्थादीनि पदानि दुष्टानीति सूत्रार्थः ।
तत्त्वान्नैराकाङ्क्ष्येण वाक्यार्थविश्रान्तिसिद्धाविह प्रयुज्यमानानां तेषामव्ययानां द्योत्यराहित्येनानर्थकत्वं भवति ; किमु वक्तव्यमात्मोपजीव्यवाच्यार्थविरहे वाचकानां पदानामनर्थकत्वमिति भावः । उदित इति । हस्तिनां समूहो हास्तिकम् । 'अचित्तहस्तिधेनोष्ठक्' इति ठक्प्रत्ययः । हास्तिकं गजता बृन्दे' इत्यमरः । तद्वद्विनीलम् । अत्र तुशब्दस्येति । भेदावधारणादेर्द्योत्यस्यानाकाङ्क्षितत्वादित्यर्थः ।
वाक्येति । पूरणं तु प्रतिभादौर्बल्यसूचकतया काव्यविद्भिः प्रयोजनत्वेन नाङ्गीकृतम् ।
पदार्थदोषान् प्रपञ्चयितुमाह– संप्रतीति । अन्यादिभिस्त्रिभिरर्थशब्दः प्रत्येकमभिसंबन्धनीयः । तेषामश्लीलक्लिष्टशब्दयोरिवार्थपदप्रयोगमन्तरेण न हठादर्थप्रतिपत्तिहेतुत्वमित्यर्थपदं प्रत्युक्तम् । विभक्तीति । अत्र प्रथमाया विभक्तेरभेदेन विपरिणामासंभवात् वचनविपरिणाम इति व्याख्येयम् । अन्यार्थादीनीति । अर्थदौष्ट्यात् पदान्यपि दुष्टानीत्यर्थः ।