यथा- 'सहस्रगोरिवानीकं दुःसहं भवतः परैः।' इति ।
सहस्रं गावोऽक्षीणि यस्य स सहस्रगुरिन्द्रः, तस्येवेति गोशब्दस्याक्षिवाचित्वं कविष्वप्रसिद्धमिति ।
असभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम् [१] ॥ १५ ॥
यस्य पदस्यानेकार्थस्यैकोऽर्थोऽसभ्यः स्यात् , तत् असभ्यार्थान्तरम्।
यथा- 'वर्चः' इति पदं तेजसि विष्ठायां च ।
यत्तु पदं सभ्यार्थवाचकमप्येकदेशद्वारेणासभ्यार्थं स्मारयति, तत् असभ्यस्मृतिहेतुः।
यथा--- 'कृकाटिका' इति ।
यति- प्रसिद्धश्चेति । उदाहरणमुपदर्शयितुमाह-- यथेति । गोशब्दस्येति । 'गौर्नाके वृषभे चन्द्रे वारभूदिग्धेनुषु स्त्रियाम् । द्वयोस्तु रश्मिग्बाणस्वर्गवज्राम्बुलोमसु' इत्यभिधाने सत्यपि गोशब्दस्य प्राचुर्येणाक्ष्णि प्रयोगादर्शनादक्षिवाचकत्वमप्रसिद्धमित्यर्थः । एतेन [२] तीर्थान्तरेषु स्नानेन समुपार्जितसत्पथः । सुरस्रोतस्विनीमेष हन्ति सम्प्रति सादरम्' इत्यादिषु हन्तीत्यादीनां गमनाद्यर्थेषु प्रयोगाः प्रत्युक्ताः ।
अश्लीलं लक्षयितुमाह-- असभ्येति । सूत्रार्थं विवृण्वन् क्रमेण लक्षणोदाहरणे दर्शयति--- यस्येति । यस्यानेकार्थवाचकस्य पदस्यैकोऽर्थोऽसभ्यः स्यात् , तदसभ्यार्थान्तरं पदमश्लीलम् । वर्च इति । 'वर्चांसि ज्वालविड्भासः' इत्यभिधानाज्ज्वालप्रभावाचकत्वेऽपि विड्वाचितया वर्च इति पदमसभ्यार्थान्तरम् । यत्त्विति । सभायां साधुः सभ्यः । ‘सभाया यः' इति यप्रत्ययः । यत्तु पदं सभ्यार्थवाचकमप्येकदेशेन यद्यसभ्यार्थस्मृतिं जनयेत्, तदप्यश्लीलम् । कृकाटिकेति । 'प्रेतयानं खटिः काटिः' इति वैजयन्त्यां शवयानपर्यायत्वेनाभिधानात्