क्लिष्ट यथा-
धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥'
एतान् पदपदार्थदोषान् ज्ञात्वा कविस्त्यजेदिति तात्पर्यार्थः ॥
इति काव्यालंकारसूत्रवृत्तौ दोषदर्शने
द्वितीयेऽधिकरणे प्रथमोऽध्यायः ।
वेगो यस्य स तादृशः, समुद्यतः सन्, जनैः स्तूयमानगुणः सन्, महापथेन राजमार्गेण गतवानिति प्रकृतार्थः । वायुवेगः अपानपथमुत्सृज्य समुद्यत इति जुगुप्सादायि । महापथेन परलोकमार्गेण गतवानित्यमङ्गलातङ्कदायि ।
क्लिष्टमुदाहरति--- धम्मिल्लस्येति । कुरङ्गशावाक्ष्याः धम्मिल्लस्य संयतकनिचयस्य । अपूर्वोऽदृष्टचरो बन्धो ग्रथनं तस्य व्युत्पत्तेश्चातुर्यस्य । शोभां प्रेक्ष्य । कस्य मानसं निकामं न रज्यति सर्वस्यापि मानस रज्यतीत्यर्थः । रज्यतीति कर्मकर्तरि रूपम् । कुषिरजोः प्राचां श्यन् परस्मैपदं च' इति परस्मैपदम् । अपूर्वबन्धव्युत्पत्तेरिति धम्मिल्लविशेषणं वा । अत्रान्वयव्यवधानान्न हाठिकी वाक्यार्थप्रतिपत्तिरिति स्पष्टमेव क्लिष्टत्वम् । ननु किं फलममीषां दोषाणामवबोधनेनेत्याशङ्क्य, परित्याग एव फलमित्याह- एतानिति ।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्ति
व्याख्यायां काव्यालंकारकामधेनौ दोषदर्शने
द्वितीयेऽधिकरणे प्रथमोऽध्यायः॥