पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/७३

पुटमेतत् सुपुष्टितम्
द्वितीयोऽध्यायः॥

 पदपदार्थदोषान् प्रतिपाद्य वाक्यदोषान् दर्शयितुमाह ---

 भिन्नवृत्तयतिभ्रष्टविसंधीनि वाक्यानि ॥ १ ॥

 दुष्टानीत्यभिसंबन्धः।

 क्रमेण व्याचष्टे---

लक्षणच्युतवृत्तं भिन्नवृत्तम् ॥ २ ॥

 स्वस्माल्लक्षणाच्च्युतं वृत्तं यस्मिन् , तत् स्वलक्षणच्युतवृत्तं वाक्यं भिन्नवृत्तम् ।

 यथा-'अयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ।'

 वैतालीययुग्मपादे लघ्वक्षराणां षण्णां नैरन्तर्यं निषिद्धम् । तच्च कृतमिति भिन्नवृत्तत्वम् ।

  चिन्तयामि चिदाकाशचन्द्रलेखां सरस्वतीम् ।
  शिरसा श्लाघनाद्यस्याः सार्वज्ञं समवाप्यते ॥

 अध्यायद्वयसौहार्दमुन्मुद्रयति – पदपदार्थेति । पदपदार्थदोषनिरूपणानन्तरं वाक्यवाक्यार्थदोषनिरूपणं लब्धावसरमिति संगतिः । वाक्यदोषानुद्दिशति---भिनवृत्तेति । 'दुष्टं पदम्' इत्यादिसूत्रात् दुष्टमित्येतत् वचनविपरिणामेन वाक्यविशेषणतयानुवर्तत इत्याह--दुष्टानीति

 यथोद्देशमेषां लक्षणानि दर्शयिष्यन् , अनन्तरसूत्रमवतारयति---- क्रमेणेति । लक्षणच्युतवृत्तमिति । लक्षणहीनवृत्तानुबन्धि वाक्यमित्यर्थः । उदाहरति- -यथेति । अयि पश्यसीति । सुमनोमालभारिणीमित्यत्र " इष्टकेषीकामालानां चिततूलभारिषु” इति मालाशब्दस्य ह्रस्वः । वैतालीयलक्षणं प्रागुक्तम् । तत्र 'ताश्च समे स्युर्नो निरन्तराः' इति समपादे लघ्वक्षरषट्कस्य नैर-