पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/७५

पुटमेतत् सुपुष्टितम्
[अधि. २.
५५
कामधेनुसहिता।

 मन्दाक्रान्तायां यथा--

 'दुर्दर्शश्चक्रशिखिकपिशः शार्ङ्गिणो बाहुदण्डः ।'

 धातुनामभागपदग्रहणात् तद्भागातिरिक्तभेदे न भवति यतिभ्रष्टत्वम् ।

 यथा मन्दाक्रान्तायाम्--

 'शोभा पुष्यत्ययमभिनवः सुन्दरीणां प्रबोधः ।'

 शिखरिण्यां यथा--

 'विमिश्रः श्यामान्तेष्वररपुटचीत्कारविरुतैः।'

 स्वरसंध्यकृत इति वचनात् स्वरसंधिकृते भेदे न दोषः ।

 यथा-'किंचिद्भावोलसमसरलं प्रेक्षितं सुन्दरीणाम् ।'

'कुरङ्गाक्षीणां ग--' इत्यत्र प्रातिपदिकभागभेदे प्राप्तायास्तस्या वैरस्यात् यतिभ्रष्टं भवति । उदाहरणान्तरमाह-- दुर्दर्श इति । मन्दाक्रान्तालक्षणमुक्तम् । 'दुर्दर्शश्च' इत्यत्र विसमो विरसः । ननु पदभागभेद इति सूत्रकरणे धातुनाम्नोरुभयोरपि संग्रहाल्लाघव भवति, किं धातुनामग्रहणगौरवेणेत्याशङ्क्य, पदग्रहणे प्रकृतिप्रत्ययमध्यविरामेऽपि यतिभ्रंशः स्यात् ; स मा भूदिति धातुनामग्रहणं कृतमित्याशयवानाह-धातुनामेति । तयोर्धातुनाम्नोर्भागाः तद्भागाः तेभ्योऽतिरिक्तभेदे धातुनामभागभेदव्यतिरिक्ते भागभेद इत्यर्थः । उदाहरति यथेति । शोभां पुष्य-' इत्यत्र विरामो न वैरस्यमावहतीति भावः । धातुप्रत्ययमध्यविरामे दोषाभावं निरूप्य प्रातिपदिकप्रत्ययमध्यभेदेऽप्युदाहरति--विमिश्र इति । श्यामा रात्रिः , अररं कवाटम् । 'श्यामान्ते---' इत्यत्र प्रातिपदिकप्रत्ययमध्यविरामो न दुष्यति । विशेषणव्यावर्त्यं कीर्तयति ---- स्वरसंधीति । उदाहरति-किंचिद्भावालसमिति । अत्र चतुर्थाक्षरावसाने यतिर्विहिता । तथा च अलसमित्यत्र अकारस्य सवर्णदीर्घेणैकादेशेन कबलितत्वात्स्वरसंधिकृतोऽयं नामभागभेद इति न यतिभ्रष्टत्वम् ।