पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/७७

पुटमेतत् सुपुष्टितम्
५७
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

पदसंधेर्वैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वं च ॥ ८ ॥

 विश्लेषः अवग्रहः विभागेन पदानां संस्थितिः । अश्लीलत्वम् असभ्यस्मृतिहेतुत्वम् । कष्टत्वं पारुष्यमिति ।

 विश्लेषो यथा--

 'कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः।' 'लोलालकानुबद्धानि आननानि चकासति ।'

 अश्लीलत्वं यथा-

 'विरेचकमिदं नृत्तमाचार्याभासयोजितम् ।'

 विसंधिनस्त्रैविध्यं वक्तुमाह- पदसंधेरिति । विश्लेषोऽवग्रह इति । अत्र पदकालप्रसिद्धोऽवग्रहो न विवक्षितः, किंतु मात्राकालव्यवधानसाम्यादसंहिताप्रगृह्यलक्षण इत्यभिसंधायाह--- विभागेनेति । स च विश्लेषो द्विविधः- प्रगृह्यनिबन्धनः, संध्यविवक्षानिबन्धनश्च । तत्राद्यमुदाहरति-- कमले इति । यदवादि दण्डिना, 'न संहितां विवक्षामीत्यसंधानं पदेषु यत् । तद्विसंधीति निर्दिष्टं न प्रगृह्यादिहेतुकम् ॥' इति । अत्र प्रगृह्यादिहेतुकं विसंधि न भवतीति सकृत्प्रयोगविषयमिदं द्रष्टव्यम् ; असकृत्प्रयोगे तु दुष्टमेव । तदुक्तं साहित्यचूडामणौ, “प्रगृह्यादिनिबन्धनत्वे पुनरसकृद्दोषः । यथा- “धीदोर्बले अतितते उचितार्थवृत्ती' इत्यादि । सकृत्तु न दोषः । तथाच प्रयोगः- 'लीलयैव धनुषी अघिज्यताम् इति, 'सहंसपाते इव लक्ष्यमाणे” इति च । द्वितीयमुदाहरति लोलालकेत्यादि । अत्र · न संहितां विवक्षामि' इति कामचारप्रयुक्तः सकृदपि दोष एव, 'नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम्' इति काव्यसमयाध्याये वक्ष्यमाणत्वात् ।

 त्रिविधमश्लीलं क्रमेणोदाहरति-~~ अश्लीलत्वं यथेति रेचका नाम नृत्ते पाणिपादादिभ्रमणरूपाश्चत्वारो भरतशास्त्रे प्रसिद्धाः । तदुक्तं संगीतरत्नाकरे, 'रेचकानथ वक्ष्यामश्चतुरो भरतोदितान् । पदयोः करयोः कट्या ग्रीवायाश्च भवन्ति ते ॥' इति । आचार्येण सता नृत्तं सरेचकं योजनीयम् ; इदं तु नृत्तं