'चकाशे पनसप्रायैः पुरी षण्डमहाद्रुमैः ।'
'विना शपथदानाभ्यां पदवादसमुत्सुकम् ।'
कष्टत्वं यथा-
'मञ्जर्युद्गमगर्भास्ते गुर्वाभोगा द्रुमा वभुः ।'
एवं वाक्यदोषानभिधाय वाक्यार्थदोषान् प्रतिपादयितुमाह--
व्यर्थैकार्थसंदिग्धायुक्तापक्रमलोकविद्याविरुद्धानि च ॥९॥
वाक्यानि दुष्टानीति संबन्धः ॥
क्रमेण व्याख्यातुमाह-
व्याहतपूर्वोत्तरार्थं व्यर्थम् ॥ १० ॥
व्याहतौ पूर्वोत्तरावर्थौ यस्मिंस्तत् व्याहतपूर्वोत्तरार्थं वाक्यं व्यर्थम् ।
यथा-- ‘अद्यापि स्मरति रसालसं मनो मे मुग्धायाः स्मरचतुराणि चेष्टितानि ।'
मुग्धायाः कथं स्मरचतुराणि चेष्टितानि ? तानि चेत् कथं मुग्धा?
विरेचकं रेचकविहीनम् । अत एवाचार्याभासयोजितम् यः स्वयमनाचार्य आचार्यवदवभासते, सोऽयमाचार्याभासः; तेन योजितम् । अत्र विरेचकयाभशेपपुरीषविनाशपदविन्यासैः, विरेचनमिथुनीभावमेहनपुरीषविनाशप्रतीतेस्त्रिविधान्यश्लीलानि द्रष्टव्यानि ।
कष्टत्वमुदाहर्तुमाह- कष्टत्वं यथेति ॥ उक्तवक्तव्यसंगतिपूर्वकमुत्तरसूत्रमवतारयति---एवमिति । चकारेण समुच्चयमाह-वाक्यानि दुष्टानीति संबन्ध इति ।
व्याहतौ परस्परविरुद्धावित्यर्थः । मुग्धायाः कथं स्मरचतुराणि चेष्टितानीति । न कथंचित्संभवन्ति, व्याहतत्वादित्यर्थः । व्याहतिमेव व्याह-