पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/८२

पुटमेतत् सुपुष्टितम्
६२
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

 विशेषमेवाभिधत्त इति ।

करिकलभशब्दे करिशब्दस्ताद्रूप्यस्य ॥ १७ ॥

 करिकलभशब्दे करिशब्दः कलभेनैव गतार्थः प्रयुज्यते ताद्रूप्यस्य प्रतिपत्त्यर्थमिति । करी प्रौढकुञ्जरः, तद्रूपः कलभः करिकलभ इति ॥

 यथा -- 'त्यज करिकलभ त्वं प्रीतिबन्धं करिण्याः ।'

विशेषणस्य च ॥ १८ ॥

  विशेषणस्य प्रतिपत्त्यर्थमुक्तार्थस्य पदस्य प्रयोगः ।

  यथा-- 'जगाद मधुरां वाचं विशदाक्षरशालिनीम् ।'

तदिदं प्रयुक्तेषु ॥ १९ ॥

 तदिदमुक्तं प्रयुक्तेषु, नाप्रयुक्तेषु । न हि भवति- यथा श्रवणकुण्डलमिति, तथा नितम्बकाञ्चीत्यपि । यथा वा करिकलभ इति, तथा उष्ट्रकलभ इत्यपि ।

 करिकलभेत्यादि । व्यक्तार्थम् ।

 विशेषणस्येति। शब्दान्तरस्य संनिधानादुक्तार्थोऽपि विशेष्यशब्दः प्रयुज्यते ; स च विशेषणस्य प्रतिपत्त्यै भवति । जगादेत्यनेन गतार्थस्य वाक्छब्दस्य माधुर्यवर्णवैशद्यलक्षणप्रतिपत्त्यै प्रयोग इष्यत इति वाक्यार्थः । ‘जगाद मधुरोदारविशदाक्षरमीश्वरः' इति विन्यासकल्पनायां विशेषणस्य प्रयोगः क्रियाविशेषणत्वेऽप्युपपद्यते । अतः 'नीलनीरजविकासहारिणा कान्तमीक्षणयुगेन वीक्षते' इत्युदाहार्यम् ।

 तदेतत्सार्थकत्वसमर्थनमभियुक्तप्रयुक्तपदनिर्वाहाय, न सर्वत्रेति नियन्तुमाह-- तदिदमिति । प्रयुक्तेषु, अभियुक्तैरिति शेषः । नाप्रयुक्तेष्विति । तथोक्तं काव्यप्रकाशे, 'कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः । संनिधानादिबोधार्थं स्थितेष्वेतत्समर्थनम् ॥' इति । अप्रयुक्तानि दर्शयति-- यथेति ।