पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/८६

पुटमेतत् सुपुष्टितम्
६६
[अधि. २.
काव्यालंकारसूत्रवृत्तिः।

 कलाशास्त्रैश्चतुर्वर्गशास्त्रैश्च विरुद्धोऽर्थो येषु, तानि कलाचतुर्वर्गशास्त्रविरुद्धार्थानि वाक्यानि विद्याविरुद्धानि । वाक्यानां विरोधोऽर्थद्वारकः।

 कलाशास्त्रविरुद्धं यथा-

 'कालिङ्गं लिखितमिदं वयस्य पत्रं पत्रज्ञैरपतितकोटिकण्टकाग्रम् ।'

 कालिङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामाम्नायः; तद्विरुद्धत्वात् कलाशास्त्रविरुद्धम् । एवं कलान्तरेष्वपि विरोधोऽभ्यूह्यः ।

 चतुर्वर्गशास्त्रविरुद्धानि तूदाह्रियन्ते--

 'कामोपभोगसाकल्यफलो राज्ञां महीजयः ।

 धर्मफलोऽश्वमेधादियज्ञफलो वा राज्ञां महीजय इत्यागमः, तद्विरोधाद्धर्मशास्त्रविरुद्धमेतद्वाक्यमिति ।

संबन्धः । प्रतिपाद्यस्य दुष्टत्वे प्रतिपादकमपि दुष्टं भवतीत्याह--- वाक्यानामिति । कलाशास्त्रविरुद्धमुदाहरति-- कलाशास्त्रेति । कालिङ्गमिति। कलिङ्गजनेषु दृष्टं पत्रं कालिङ्गमित्युच्यते । तच्च पतितकोटिकण्टकाग्रतया लेखनीयम् । तत्रार्थे तच्छास्त्रफक्किकामाह- कालिङ्गं पतितकोटिकण्टकाग्रमिति पत्रविदामाम्नाय इति । विरोधस्तु परिस्फुट एव । एवमिति । भरतकलाविरोधो यथा-- 'रणद्भिराघट्टनया नभस्वतः' इत्यादावानुलोम्येन प्रातिलोम्येन वा नभस्वत्संचारक्रमेण स्वरा उत्पद्यन्ते, न पुनर्वैचित्र्येणेति कुतो रागसंबन्धिनीनां मूर्च्छनानां स्फुटीभाव इत्यादि द्रष्टव्यम् ।

 धर्मार्थकाममोक्षाः चतुर्वर्गः । 'त्रिवर्गो धर्मकामार्थेश्चतुर्वर्गः समीक्षकः' इत्यमरः । तत्प्रतिपादकशास्त्राणि चतुर्वर्गशास्त्राणि ; तद्विरुद्धानि क्रमेणोदाहर्तुं प्रतिजानीते- चतुर्वर्गेति । तत्र धर्मशास्त्रविरुद्धमुदाहरति---- कामोपभोगेति । तत्रागमवाक्यं दर्शयति- अश्वमेधादीति । महीजयस्य राज्ञामश्वमेधादिफलत्वेन धर्मशास्त्रेऽभिधानात् , तद्विरुद्धं कामोपभोगसाकल्यफलवाक्यम् । यथा वा-- ' सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः । नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च ॥' अत्र ग्रहोपरागं विना