पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/८९

पुटमेतत् सुपुष्टितम्

तृतीयमधिकरणम् ॥

 यद्विपर्ययात्मानो दोषाः, तान्गुणान्विचारयितुं गुणविवेचनमधिकरणमारभ्यते । तत्रौजःप्रसादादयो गुणाः, यमकोपमादयस्त्वलंकारा इति स्थितिः काव्यविदाम् । तेषां किं भेदनिबन्धनमित्यत्राह--

काव्यशेभायाः कर्तारो धर्मा गुणाः ॥ १ ॥

 ये खलु शब्दार्थयोर्धर्माः काव्यशोभां कुर्वन्ति, ते गुणाः; ते चौजःप्रसादादयः, न यमकोपमादयः, कैवल्ये तेषामकाव्यशोभाकरत्वात् ।

   देव्याः कृतिषु दीव्यन्त्यां वाचां वैचित्र्यकारिणीम् ।
   चेतोहरचमत्कारां प्रस्तौमि गुणविस्तृतिम् ॥ १ ॥

 उक्तवक्तव्यसंगतिमुल्लिङ्गयति -यद्विपर्ययात्मानो दोषा इति । निर्वृत्ते दोषनिरूपणे तत्प्रतिभटानां गुणानां निरूपणं लब्धावसरमिति संगतिः । गुणा अलंकारेभ्यो विविच्यन्ते, ते च परस्परं विविच्यन्ते विभज्यन्तेऽस्मिन्निति गुणविवेचनं नामाधिकरणमारभ्यते । 'काव्यशोभाकरान् धर्मानलंकारान्प्रचक्षते । काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलंक्रियाः ॥' इति दण्डिमतं खण्डयितुं गुणालंकारभेदं दर्शयिष्यन् , पीठिका प्रतिष्ठापयति-- तत्रेति । काव्यविदां कविकर्ममर्मविदाम् ओजःप्रसादादीनां गुणा इति, यमकोपमादीनामलंकारा इति च विभिन्नव्यवहारविषयत्वं व्यवस्थितमित्यर्थः । प्रश्नपूर्वकमुत्तरसूत्रं प्रसञ्जयति- तेषामिति । तेषां गुणालंकाराणां भेदस्य किं निबन्धनं कारणमिति प्रश्नः । व्याचष्टे- ये खल्विति । गुणा वस्तुतो रीतिनिष्ठा अपि उपचाराच्छब्दधर्मा इत्युक्तम् । एतच्च गुणोद्देशसूत्रे कुशलमुपपादयिष्यामः । गुणशब्दप्रवृत्तिनिमित्तमयोगान्ययोगव्यवच्छेदाभ्यां परिच्छेत्तुं प्रक्रमते-- ते चेति । अन्ययोगव्यवच्छेदं तावदाख्याति- कैवल्य इति । तेषामलंकाराणां कैवल्ये गुणसाहचर्याभावे काव्यशोभाकलनाक्षमत्वादित्यर्थः । अयोगं व्यवच्छिनत्ति--- ओजः-