पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/९०

पुटमेतत् सुपुष्टितम्
७०
[अधि. ३.
काव्यालंकारसूत्रवृत्तिः।

 ओजःप्रसादादीनां तु केवलानामस्ति काव्यशोभाकरत्वमिति ॥

तदतिशयहेतवस्त्वलंकाराः ॥ २ ॥

 तस्याः काव्यशोभाया अतिशयः तदतिशयः, तस्य हेतवः । तुशब्दो व्यतिरेके । अलंकाराश्च यमकोपमादयः ।

अत्र श्लोकौ-

  'युवतेरिव रूपमङ्गं काव्यं स्वदते शुद्धगुणं तदप्यतीव |
  विहितप्रणयं निरन्तराभिः सदलंकारविकल्पकल्पनाभिः ॥
  यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः ।
  अपि जनदयितानि दुर्भगत्वं नियतमलंकरणानि संश्रयन्ते ॥'

पूर्वे नित्याः ॥३॥

प्रसादादीनां त्विति । केवलानाम् अलंकारासहचरितानाम् । अस्त्येवेति संबन्धः ।  अलंकारपदप्रवृत्तिनिमित्तमावेदयितुमाह-तदतिशयहेतव इति । जडबुद्धिषु जातानुग्रहो विग्रहमाह- तस्या इति । तुशब्द इति । व्यतिरेको भेदः । 'तुः स्याद्भेदेऽवधारणे' इत्यमरः ।  अमुमेवार्थमन्वयव्यतिरेकाभ्यामभियुक्तसंवादेन द्रढयति- अत्र श्लोकाविति । शुद्धाः अलंकारासंकलिता गुणाः ओजःप्रसादादयो लावण्यादयश्च यस्य तत् । गुणमात्रविशिष्टमपि काव्यं युवते रूपमिव । स्वदते रोचते रसिकेभ्य इति शेषः । निरन्तराभिः निबिडाभिः । अलंकाराः यमकोपमादयः, कटकादयश्च, तेषां विकल्पाः विच्छित्तयः, तेषां कल्पनाभिः रचनाभिः । विहितप्रणयं रचितानुबन्धं सत् काव्यं युवते रूपमिव अतीवातिमात्रं स्वदते इत्यन्वयमुक्त्वा व्यतिरेकमाह--- यदीति । वचः काव्यात्मकं गुणेभ्यश्च्युतं यदि, तद्वचो यौवनवन्ध्यं लावण्यशून्यम् अङ्गनाया वपुरिव भवति । तदा जनदयितान्यपि लोकप्रियाण्यपि अलंकरणानि नियतमवश्यं दुर्भगत्वं सौन्दर्यवैधुर्यादनादरणीयत्वं संश्रयन्ते इति श्लोकद्वयार्थः ।