पृष्ठम्:काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता).pdf/९५

पुटमेतत् सुपुष्टितम्
अ. १.]
७५
कामधेनुसहिता।

 क्वचिदोजः प्रसादादुत्कृष्टम् । यथा- 'व्रजति गगनं भल्लातक्याः फलेन सहोपमाम् ।'

 क्वचिदोजसः प्रसादस्योत्कर्षः। यथा- 'कुसुमशयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः ।'

मसृणत्वं श्लेषः ॥ १०॥

 मसृणत्वं नाम तत् , यस्मिन् सति बहून्यपि पदान्येकवद्भासन्ते।

 यथा- 'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः।'

 न पुनः 'सूत्रं ब्राह्ममुरःस्थले ।' 'भ्रमरीवल्गुगीतयः ।' 'तटित्कलिलमाकाशम्' इति । एवं तु श्लेषो भवति 'ब्राह्मं सूत्रमुरःस्थले ।' 'भ्रमरीमञ्जुगीतयः ।' 'तटिज्जटिलमाकाशम् ।' इति ।

मार्गाभेदः समता ॥ ११ ॥


त्मा--' इत्यादावोजः, 'यथाविधि सूनवे' इत्यादौ प्रसादः। भिन्नदेशयोरप्योजःप्रसादयोः परस्परच्छायानुकारितया संप्लवः । उभयोरत्र साम्यं वेदितव्यम् । ओजसः प्रसादादुत्कर्षमुदाहरति---व्रजतीति । भल्लातकी नाम वीरवृक्षः। 'वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु' इत्यमरः । 'कुसुमशयनम्' इत्यत्र प्रसादस्योत्कर्षो द्रष्टव्यः ।

 श्लेषं विशदयितुमाह--- मसृणत्वं श्लेष इति । मसृणत्वं विशिष्य दर्शयति-यस्मिन्निति । यत्र हि व्यासेऽपि समासवदवभासः स श्लेषः । 'अस्त्युत्तरस्याम्' इति सामान्येनोदाहरणमुक्त्वा श्लेषस्य व्यतिरेकमुखेनान्वयमाविष्करोति-न पुनरिति । 'सूत्रं ब्राह्ममुरःस्थले', 'भ्रमरीवल्गुगीतयः', 'तटित्कलिलमाकाशम्' इत्यत्र श्लेषः पुनर्नास्तीति संबन्धः । सूत्रं ब्राह्ममित्यत्र परसवर्णेऽपि परुषाक्षरोत्थानान्न श्लेषः । तर्हि कीदृशि विन्यासे श्लेषो भवतीत्यत आह- एवं त्विति । अस्य गुणस्य विपर्ययो विसन्धेर्वाक्यदोषस्य विश्लेषात्मा भेदः ।

 समतां समाख्यातुमाह-मार्गाभेद इति । आदिमध्यावसानेष्वैकरूप्यं