पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चसप्ततितमोऽध्याय १४१ द्रप्सलड्धनविकृतान्यपात्राप्रवेशनादिदोषान् परिहृत्य स्थालीमदिभः प्रमाज्र्य भस्मना ऊध्र्वपुण्ड्रमालिप्य त्रिपादे संस्थाप्याधो वामोनोध्र्य दक्षिणहस्तेन चोद्धृत्य देवालय प्रविश्योतरपा निधाय ततस्तदा निवेदयेत । मूतहविधोः लक्षणम् चतुस्सन्धिषु निवेदनमुत्तम, त्रिसन्धिषु मध्यमं. प्रातर्मध्याह्मयोरधमम् । मुख्यं हविः नेित्रां मध्याहे कुर्यात् । नेित्य हििविध भवति । भूत हविरिति । विधिना यथाभागोपदंशघृतगुडदधिफलयुक्त भूतम् । यथाशक्युपदशायैर्युक्तं हविः । द्वात्रिंशतिके भूतमेव हििनवेदयेत् सप्तविंशकेि अन्यदिति । विशेषतश्च हविििवधं भवति प्रभूतं महाहविरिति । तथैवोपदशायैर्युक्त द्विद्रोणादिशत प्रस्थान्तं प्रभूतम् । नानाविधैरुपदशै । : शृतगुडदधिफलादिभि सपुतं द्विशत प्रस्यादि प्रत्येक सहग्रप्रस्थान्त नवविध महाहविः । विशेषपूजाया प्रभूत काम्यके महाहविः कुर्यात् । प्रभूते महाहििष च आलयामरणे ब्रह्मसूत्राद्दक्षिणे यद्दिग्रिमा तद्दिङ्मुखे पादहीनायतविस्तारे विष्टरमासन न्यस्य तत्र देवेशं सस्थाप्य मण्डलमुपकल्प्य त्रीहीस्तण्डुलाश्वावकीर्य कदलीपत्राणि प्रक्षाल्यास्तीर्य ‘हविष्मन्त” मिति घृतेनाभिघार्य पात्रेषु हवेि प्रक्षिप्य बह्मन्न बहूपदशाद्येर्युक्त कृतगुड दधिफलैर्युक्त निवेद्य पानीयाचभने दत्वा ताम्बूल मुस्वासञ्च निवेद्यालकृत्य देवं प्राणस्थाने स्थापयेत् । सर्वह.िपात्रेषु शिष्टमन्न सर्व पूजका गृह्मपुः । निवेदितस्य विनियोगः नद्वार यथा गुरोरुच्छिष्टं पुत्रशिष्याणा भोज्यं तथा सर्वस्य रक्षितु सौम्यमूर्ते सर्व व्यापिनो विष्णोः जगद्गुरोर्निविदितमन्नाद्य विश्ध चातुर्वण्यानां भक्तिमता सर्वेषां भोज्यम । अन्येषामपि सौम्यदेवानां तत्पूजक्पना तद्भक्ताना भोज्यम् । रुद्राद्यन्यः क्रूरदेवानां निवेदितं तत्पूजकानां तद्भभक्तानामप्यभोज्यमेव । तस्मादेतत्सर्व जलेष्वग्नौ वा क्षिपेत् ।यावतण्डुलै विष्णोर्हविर्दत (तावद्वर्षसहभ्राणि) विष्णुलोके मही यते । यद्यत्कामेन देवेशस्य हविदयते तत्सर्वमचिरादेव लभेत इति विज्ञायते । इति श्रीवैखानसे कश्यपप्रोते जानकाण्डे हविर्निवदनविधिनम पञ्चसप्ततितमोऽध्याय : ।