पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे तस्मात्सलक्षणमेवाचरेत् । 'अलक्षणे आहृते तमपहाय वैष्णवं वास्तुदेवत्यं हुत्वा समारभेत । कुम्भपूजनकाले च आचार्यादीनां प्रमणचलननिद्रालस्यमोह क्रोधलोभाद्यनर्थदर्शने महाशान्तिं हुत्वा विप्रक्षतं भोजयित्वा गवादिदक्षिणां दत्वा अन्यगुरुं सङ्गृह्य यागमारभेत । वस्त्रलाभेऽथ कुम्भस्य वैष्णवं वारुणं हुत्वा हिरण्यं दक्षिणां दद्यात । उच्छिष्टाशुचिकाकादिदर्शने तं त्यक्त्वा अन्यमादाय महाशान्तिं हुत्वा आचार्यमनुज्ञांप्याराध्यारभेत । कुम्भे यदि प्रभिन्ने सर्वप्रजामरणं भवति, तस्मात भृश *दुःखान्तं विज्ञाय विष्णुयागं तथा कृत्वा हिरण्यग वाभादीन् दत्वा पुनः समारभेत । विष्णुगायत्र्या प्रणवाद्यया समिदाज्यचरुभिर्द आहुतिसहस्रमजारग्नौ हुत्वा पुण्याहं प्रवाच्य आशीर्भिरभिनन्द्य द्वादशनिष्कं तदर्ध वा दक्षिणां दत्वा आरभेतेति भृगुः महाशान्तिं हुत्वा आरभेतेत्यशिराः रात्रौ प्रतिष्ठायाम् रा प्रतिष्ठा चेत सर्वदोषकरं तस्मादाग्नेयं वैष्णवं सौरं च पथक पृथाष्टसहनं हुत्वा पुनः दिवैव' स्थापन कुर्यात् । अत्विगाचार्यादीनां दक्षिणाहीने तत्सर्वं भस्मसात् भवति । तत्फलमसुराः स्वस्थाः गृहन्ति । तस्मात्तेभ्यो दक्षिणं न हापयेत् । यदि हापयति शक्तो भासः काकोऽपि भूत्वा पुनः क्ततत्प्रेष्यजन्मशतं 1 प्राप्नुयादिति । तस्मात्ते दैववत्पूज्या भवन्तीति विज्ञायते । इति कश्यपप्रोक्ते श्रीवैखानसे भगवच्छास्त्रे ज्ञानकाण्डे कुम्भपूजाविपर्यासादिप्रायश्चित्तविधिर्नाम एकोत्तरशततमोऽध्यायः ।। 1. क. अलक्षणेष्वाहतेपु. 2. क. तदपहाय. 3. कुंभूपूजनाकालेऽपि शान्तिं जुहुयादिति B. कोशेष्घत्राधिकं दृश्यते. 4. छ, दुखं तं B. दुःखं समास्थाय. 5. छ. आज्याहुतिभिः 6. B. सौरं वैष्णवं. 7. B. निर्मन्थ्येऽप्यशे इत्यधिकं१8. B. गूहति. 9. B. तत् जन्मशत. 10.A. प्रायादिति.