पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः ।

शोकमोहादिवर्जित इत्यर्थः । युधि रणे स्थिरं युधिष्ठिरं धर्मराजम् । ‘हलदन्तात्सप्तम्याः संज्ञायाम्' इत्यलुक्। ‘गवियुधिभ्यां स्थिरः इति षत्वम् । समाययौ संप्राप्तः। अत्र ‘वने वनेचरः' इति द्वयोः स्वरव्यञ्जनसमुदाययोरेकदैवावृत्त्या वृत्त्यनुप्रासो नामालंकारः। अस्मिन्सर्गे वंशस्थवृत्तम् । तल्लक्षणम्-'जतौ तु वंशस्थमुदीरितं जरौः' इति ।।

कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः ।
न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥२॥

 कृतप्रणामस्येति ॥ कृतप्रणामस्य तत्कालोचितत्वात्कृतनमस्कारस्य सपत्नेन रिपुणा दुर्योधनेन । 'रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः' इत्यमरः। जितां स्वायत्तीकृतां महीं महीभुजे युधिष्ठिराय । क्रियाग्रहणात्सम्प्रदानत्वम् । निवेदयिष्यतो ज्ञापयिष्यतः । 'लृटः सद्धा' इति शतृप्रत्ययः । तस्य वनेचरस्य मनो न विव्यथे। कथमीदृगप्रियं राज्ञे विज्ञापयामीति मनसि न चचालेत्यर्थः । 'व्यथ भयचलन्त्यो:' इति धातोर्लिट् । उक्तमर्थमर्थान्तरन्यासेन समर्थयते- न हीति । हि यस्मात् । हितमिच्छन्तीति हितैषिणः स्वामिहितार्थिनः पुरुषा मृषा मिथ्याभूतं प्रियं प्रवक्तुं नेच्छन्ति । अन्यथा कार्यविघातकतया स्वामिद्रोहिणः स्युरिति भावः। 'अमौढ्यममान्द्यममृषाभाषित्वमभ्यूहकत्वं चेति चारगुणाः' इति नीतिवाक्यामृते ॥

 तथापि प्रियार्हे राज्ञि कटुनिष्ठुरोक्तिर्न युक्तेत्याशङ्क्य स्वाम्यनुज्ञया न दुष्यतीत्याशयेनाह-

द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भू[१]भृतः ।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे ॥३॥

 द्विषामिति ॥ रहस्येकान्ते स वनेचरो द्विषां शत्रूणाम् । कर्मणि षष्ठी। विघाताय। विहन्तुमित्यर्थः । 'तुमर्थाच्च भाववचनात्' इति चतुर्थी । ‘भाववचनाश्च' इति तुमर्थे घञ्प्रत्ययः । अत्र तादर्थ्यमपि न दोषः । तथापि प्रयोगवैचित्रीविशेषस्याप्यलंकारत्वादेवं व्याचक्षते । विधातुं व्यापारं कर्तुमिच्छतः। 'समानकर्तृकेषु तुमुन्'। द्विषो विहन्तुमु- द्युक्तज्ञानस्येत्यर्थः । अतएव भूभृतो युधिष्ठिरस्यानुज्ञामधिगम्य । सुष्टु भावः सौष्ठवं शब्दसामर्थ्यम् । सुष्ठुशब्दादव्ययादुद्गात्रादित्वाञ्प्रत्ययः । उदारस्य भाव औदार्यमर्थ- संपत्तिः । तयोर्द्वन्द्व: सौष्ठवौदार्ये । अत्रौदार्यशब्दस्याजाद्यन्दत्वेऽपि 'लक्षणहेत्वोः क्रियायाः' इत्यत्राल्पस्वरस्यापि हेतुशब्दस्य पूर्वनिपातमकुर्वता सूत्रकृतैव पूर्वनिपात- स्यानित्यत्वज्ञापनात्रं पूर्वनिपातः । उक्तं च काशिकायाम्--'अयमेव लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्' इति । त एव-विशेषः । तयोर्वा विशेषः । तेन शालते शोभत इति सौष्ठवौदार्यविशेषशालिनी ताम्। ताच्छील्ये णिनिः ।विनिश्चितार्थं विशेषतः प्रमाणतो निर्णीतार्थामिति वक्ष्यमाणरूपां वाचमाददे स्वीकृतवान् । उवाचेत्यर्थः ।।




  1. 'भूभुजः' इति पाठः,