पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
षष्ठ:सर्गः ।


क्षा । अवसादं क्षयमेति । मुक्तानपि बध्नतीनां वः कथमसामर्थ्यमिति भावः । अत्रोत्प्रे- क्षारूपकयोः संकरः॥

बहुधा गतां जगति भूतस्मृजा कमनीयतां स[१]मभिहृत्य पुरा।
उपपादिता विदधता भवतीःसुरसद्मयानसुमुखी जनता॥४२॥

  बहुधेति ॥ किं च । पुरा जगति बहुधा गतां नानामुखेन विप्रकीर्णां कमनीयतां चन्द्राद्युपमानद्रव्यगतलावण्यं समभिहृत्य संगृह्य भवतीर्विदधता सृजता भूतसृजा ब्रह्मणा जनता जनसमूहः। 'ग्रामजन-' इत्यादिनातल् । सुरसद्मयानसुमुखी स्वर्लोकयात्रा- प्रवणोपपादिता कृता । स्वर्गस्यापि यत्प्रसादात्सर्वलोकश्लाघ्यत्वम् । तासां वः कथम- सामर्थ्यमिति भावः । अत्राप्सरसां प्रकीर्णलावण्यसंग्रहासंबन्धेऽपि तत्संबधाभिधा- नादतिशयोक्तिः॥   अथ कार्यांशमाह -

तदुपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताःसचिवैः।
हृतवीतरागमनसां ननु वःसुखसङ्गिनं प्रति सुखा[२]वजितिः ॥४३॥

  तदिति ॥ तत्तस्मात्समर्थत्वात्कालासु गीतवाद्यादिषु कृतिभिः कुशलैः सचिवैर्गन्धर्वैः सहिता उपेत्य गत्वा तस्य पुरुषस्य तपो विघ्नयत विघ्नवत्कुरुत । विहतेत्यर्थः । विघ्नवच्छब्दान्मत्वन्तात् 'तत्करोति' इति णिचि लोट् । णाविष्टवद्भावान्मतुपो लुक् । न चात्रासामर्थ्यशङ्का कार्येत्यर्थान्तरन्यासेनाह-हृतेति । ननु संबोधने । हे अप्सरस:, हृतानि वशीकृतानि वीतरागाणां निस्पृहाणां मुमुक्षूणां मनांसि चित्तानि याभिस्तासां वो युष्माकमप्सरसां सुखसङ्गिनं पुरुषं प्रति सुखाभिलाषिणं प्रत्यवजितिर्विजयः सुखा सुखसाध्या न तु दुष्करा खलु । एतेनायसुखार्थी न मुमुक्षुरित्युक्तम् । अर्थान्तरन्यासः॥   अथ सुखसङ्गित्वलिङ्गमाह-

अविमृष्यमेतदभिलष्यति स द्विषतां वधेन वि[३]षयाभिरतिम् ।
भववीतये नहि तथा स विधिः क्वशरासनं क्व च विमुक्तिपथः ॥४४॥

  अविमृष्येति ॥ हे अप्सरसः, स पुरुषो द्विषतां शत्रूणां वधेन शत्रुहननद्वारा विषयाभिरतिं विषयसुखमभिलष्यति वाञ्छति । 'वा भ्राश-' इत्यादिना श्यन्प्रत्ययः। एतद्विषयासक्तत्वमविमृष्यमविचार्यम् । अविमृष्यमसंदिग्धव्यमिति । 'ऋदुपधाच्चक्ळृपिचृतेः' इति क्यम् । भवतीभिर्न संदिग्धव्यमित्यर्थः । हि यस्मात्स विधिः स बिभर्ति भीषणभुजङ्गभुजः' इत्यादिश्लोकोक्त्तोऽनुष्ठानप्रकारो भववीतये संसारमुक्तये न भवति । कुत इत्याह-शरासनं धनुः क्व, विमुक्ते: पन्थाश्च क्व । द्वयं परस्परं विरुद्धमित्यर्थः । न खलु हिंसासाध्या मुक्तिरिति भावः । अर्थान्तरन्यासोऽलंकारः ॥


  1. 'समुपहृत्य' इति पाठः
  2. 'विजितिः' इति पाठः
  3. 'विजयातिशयम्' इति पाठः