पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
किरातार्जुनीये


  न च शापभयमपि संभाव्यमस्मादित्याह---

पृथुधाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः ।
स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृषन्ति धियः ॥४५॥

  पृथ्विति॥ पृथुधाम्निमहातेजसि तत्र तस्मिन्पुरुषविषयेऽन्यमुनिवदन्यस्मिन्मुनाविव। 'तत्र तस्येव' इति वतिप्रत्ययः । विकृतिः कोपविकारश्च भवतीभिर्मा परिबोधि मा विज्ञायि। मा शङ्कीति यावत् । बुध्यतेः कर्मणि लुङ् । माङ्योगादाशीरथैऽडागमाभावश्च । तथा हि । स्वयशांस्यवतां रक्षताम् । यशोधनानामित्यर्थः । विक्रमवतां धियश्चित्तानि वधूषु स्त्रीविषयेष्वधानि व्यसनानि । 'दुःखैनोव्यसनेष्वधम्” इति वैजयन्ती। न विमृषन्ति। अर्थान्तरन्यासः। स्त्री हिंसायाः शूराणां यशोहानिकरत्वान्न सर्वथा वो हिनस्ति स इत्यर्थः ॥

आशंसितापचितिचारु पुरः सुराणामादेशमित्यभिमुखं समवाप्य भ[१]र्तुः ।
लेभे परां द्युतिममर्त्यवधूसमूहः संभावना ह्यधिकृतस्य तनोति ते[२]जः॥ ४६ ॥

  आशंसितेति ॥ अमर्त्यवधूसमूहोऽप्सरसां गणः सुराणां पुरोग्र आशंसित्तापचिति- भिरपेक्षितसंभावनाभिश्चारु यथा तथा । 'क्षयार्चयोरपचितिः' इत्यमरः । अभिमुखं समक्षं भर्तुः स्वामिन इति पूर्वोक्तमादेशं नियोगं समवाप्य परां द्युतिं लेभे । तथा हि । अधिकृतस्य क्वचिदधिकारे नियुक्तस्य संभावना स्वामिकृता पूजा तेजः कान्तिं तनोति॥

प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः।
अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितममरभर्तुर्द्रष्टुमक्ष्णां सहस्रम् ॥४७॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये षष्ठ: सर्गः ।

  प्रणतिमिति ॥ अथ प्रणतिं विधाय सद्मन इन्द्रभवनात्प्रस्थिताः प्रचलिताः स्तनभरैर्न- मितान्यङ्गानि यासां ताः । 'अङ्गगात्रकण्ठेभ्यो वक्तव्यम्' इति ङीप् । प्रीतिभाजः स्वामिसंभावनया संतुष्टास्ता अङ्गना अचलनलिनानां स्थिरकमलानां लक्ष्मीर्हरतीति तत्तथोक्तम् । तद्वन्मनोहरमित्यर्थः । कुतः स्तिमितं विस्मयंनिश्चलममरभर्तुरक्ष्णां सहस्त्रं


  1. 'पत्युः' इति पाठः
  2. 'कीर्तिम्' इति पाठः