यातस्येति ॥ ग्रथिततरङ्गं बद्धोर्मि यत्सैकतं तस्याभेवाभा यस्य तस्मिन्विगतानि
पयांसि यस्मात्तस्मिन्विपयसि निर्जले। 'शेषाद्विभाषा' इत्यादिना विकल्पान्न समासान्तः।
उरःप्रभृतिपाठस्तु पयःशब्दस्यैकवचनान्तस्यैवेति न कश्चिद्विरोधः। वारिवाहजाले
मेघवृन्दे विच्छेदं त्रुटिं यातस्य सुरधनुष इन्द्रचापस्य त्रिदशवधूजनाङ्गभाजां मणीनाम्।
तदङ्गसङ्गिविभूषामणीनामित्यर्थः । प्रभाः कान्तयः संधानमातेनुश्चक्रुः ।
अत्राभरणप्रभाणामिन्द्रधनुःसंधानासंबन्धेऽपि संबन्धाभिधानादतिशयोक्तिरलंकारः ॥
संसिद्धावितिकरणीयसंनिबद्धैरालापैः पिपतिषतां विलङ्घ्य वीथीम्। |
संसिद्धाविति ॥ संसिद्धौ कार्यसिद्धिविषय इतीत्थंभाविना प्रकारेण । कर्तव्यमिति करणीयं तेन संनिबद्धै:। संयोजितैरित्यर्थः।आलापैराभाषणैरुपलक्षितया।'स्यादाभाषणमालापः' इत्यमरः। दशशतानि संख्या येषु तानि लोचनानि यस्य सः । सहस्रलोचन इत्यर्थः । तस्य ध्वजिन्या सेनया पिपतिषतां पक्षिणां वीथीं मार्गम्। 'पित्सन्तो नभसङ्गमाः' इत्यमरः। 'तनिपति-'इत्यादिना विकल्पादिडागमः।विलङ्घ्य जीमूतैर्जीवस्योदकस्य मूतः पटबन्धो येषां ते तैः। पृषोदरादित्वात्साधुः । अपिहितसानुराच्छादिततटः। उन्नत इत्यर्थः । इन्द्रकील आसेदे प्राप्तः । सीदतेः कर्मणि लिट् ॥
आकीर्णा मुखनलिनैर्विलासिनीनामुद्धूतस्फुटविशदातपत्रफेना। |
आकीर्णेति ॥ विलासिनीनांमुखनलिनैः । उपमितसमासः । आकीर्णा व्याप्ता उद्भूतान्यूर्ध्वमुत्क्षिप्तानि स्फुटान्यसंकुचितानि विशदातपत्राणि श्वेतच्छत्राणि फेना इव यस्यास्तथोक्ता तूर्यध्वनितैर्वाद्यघोषैर्गभीरं यथा यथा भूभर्तुरिन्द्रकीलस्य शिरस्यापतन्ती सा सेना नभोनदीव रेजे।
सेतुत्वं दधति पयोमुचां विताने संरम्भादभिपततो रथाञ्जवेन । |
सेतुत्वमिति ॥ पयोमुचां विताने सेतुत्वं दधति सति संरम्भादोटापाज्जवेनाभिपततः। मेघवृन्दमधरीकृत्य धावत इत्यर्थः । तथाभूतान् रथान्नियमितैराकृष्टै रश्मिभिः प्रग्रहैर्भुग्ना आकुंञ्चिता घोणाः प्रोथा येषां तैः । 'कुञ्चितं नतम् । आविद्धं कुटिलं भुग्नं वेल्लितं वक्रम्' इत्यमरः । 'किरणप्रग्रहौ रश्मी' इत्यमरः।'घोणा तु प्रोथमस्त्रियाम्' इत्यमरः। अवनमन्तीत्यवनामिनोऽवनतपूर्वकायास्तुरङ्गाः कृच्छ्रेण महता प्रयत्नेन क्षितिमा- निन्युरिति स्वभावोक्तिः ॥
- ↑ 'आनदन्ती' इति पाठ: