भ्यधिकं यथा तथा श्रीमत्ताम् । श्रियमित्यर्थः । आदधे जनयामास। तथाहि। महोदयानां
महात्मनां संसक्तौ सम्यक्संबन्धे । 'संभक्तौ' इति पाठे तु सम्यक्सेवायाम् ।
किमसुलभम् । न किंचिद्दुर्लभमित्यर्थः । यतः । यदृच्छया दैवाद्योगोऽप्युच्छ्रायमुत्कर्षं
नयति । अत्र प्रकृतयदृच्छया योगस्योत्कर्षाभिधानादप्रकृतसक्तियोगस्योत्कर्षांधायकत्वे
कैमुतिकन्यायेनार्थापत्तिरिति प्राकरणिकादप्राकरणिकरूपार्थापत्तिरलंकारः । तदुक्तम्-
'एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यथा पतेत् । कैमुत्येन यतः सा स्यादर्थापत्तिरलंक्रिया ॥'
इति ॥
सामोदाःकुसुमतरुश्रियोविविक्ताःसंपत्तिःकिसलयशालिनीलतानां |
सामोदा इति ॥ सामोदाः ससौरभाः कुसुमप्रधानास्तरवः । शाकपार्थिवादिषु द्रष्टव्यः। तेषां श्रियः समृद्धयो विविक्ता विजनप्रदेशाः। 'विविक्तविजनच्छन्ननिःशलाकास्तथा रहः' इत्यमरः । किसलयशालिनीलतानां नवपल्लवयुतवल्लीनां संपत्तिरेता अमराङ्गनोपभुक्ताः सत्यः साफल्यं ययुः। तथाहि । यया लक्ष्म्या करणेन परेषामुपकुरुते। लक्ष्मीवानिति शेषः । सा लक्ष्मीर्नान्येति भावः। परेपामित्यत्र 'अनुकरोति भगवतो नारायणस्य' इत्यादिवत्क्रियायोगे हि संबन्धसामान्ये षष्ठी ॥
क्लान्तोऽपित्रिदशवधूजनः पुरस्ताल्लीनाहि[२]श्वसितविलोलपल्लवानाम्। |
क्लान्त इति ॥ क्लान्तोऽपि त्रिदशवधूजनः पुरस्तादग्रे लीनानां संश्रितानामहीनां श्वसितैर्निःश्वासैर्विलोलाः पल्लवा येषां तेषां चन्दनानां संपर्कं हतविनयैर्दुर्जनैः खलैरावृतानां संवृतानां सेव्यानां प्रभूणां संपर्कमिव परिहरति स्म । दुष्टयद्दुष्टसंसृष्टा गुणाख्या अपि त्याज्या इति भावः ॥
उत्कृष्टध्वजकुथकङ्कटा धरित्रीमानीता विदितनयैः श्रमं विनेतुम् । |
उत्सृष्टेति ॥ उत्सृष्टा आक्षिप्ता ध्वजाः कुथा आस्तरणानि कङ्कटास्तनुत्राणानि च येभ्यस्ते । 'प्रवेण्यास्तरणं वर्ण: परिस्तोमः कुथो द्वयोः' इत्यमरः । विदितनयैः शिक्षा- भिज्ञैर्यन्तृभिः श्रमं विनेतुं क्लममपनेतुं धरित्रीमानीताः। निवेश्यमाना इत्यर्थः । द्विपा युगान्तवातैराक्षिप्तान्युद्धृतानि द्रुमाणां गहनानि वनानि येभ्यस्ते पर्यस्ता विपर्यासिता गिरय इव विरेजुः शुशुभिरे ॥
प्रस्थानश्रमजनितां विहाय निद्रामामुक्ते गजपतिना सदानपङ्के । |