उत्तेरुनिंर्जग्मुः। अत्र मदसरसिजगन्धयोः समयोर्विनिमयोक्त्या समपरिवृत्तिरलंकारः।
तेन च गजानां निम्नगायाश्च परिमलव्यत्ययान्तरसंरम्भो व्यज्यते ॥
आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु । |
आकीर्णमिति ॥ घनारुणेन सान्द्रलोहितेन। विशेषणसमासः। बलरजसा सेनापरागेणाकीर्णं सपदि प्रक्षोभैरालोडनैस्तटेषु तीरेषु तरङ्गितं संजाततरङ्गम् । तारकादित्वादितच् । यद्धा । तरङ्गवत्कृतम् । मत्वन्तात् 'तत्करोति' इति णिचि कर्मणि क्तः। णाविष्टवद्भावान्मतुपो लुक् । तथा मातडैरुन्मथितानां लुलितानां सरोजानां रेणुभिः पिङ्गं पिशङ्गमम्बु माञ्जिष्ठेन महारजनेनारक्तं माञ्जिष्ठं वसनमिव निर्बभासे । 'तेन रक्तं-' इत्यण् । 'कौशेयम्' इति वा पाठे 'कोशाङ्ढञ्' । 'कौशेयं कृमिकोशोत्थम्' इत्यमरः ॥
श्रीमद्भिर्नियमितकंधरापरान्तैः संसक्तैरगुरुवनेषु साङ्गहारम् । |
श्रीमद्भिरिति ॥ श्रीमद्भिः शोभावद्भिर्नियमिताः कंधरा अपरान्ताश्चरमपादाग्राणि च येषां तैः । 'अपरः पश्चिमः पादः' इति वैजयन्ती। अगुरुवनेषु साङ्गहारं साङ्गविक्षेपं यथा तथा संसक्तैर्निसृतानि प्रसृतानि मदाम्बूनि येषां तैर्गजेन्द्रैः प्रस्यन्दिनो जलस्राविणः प्रचलिता ये गण्डशैलाच्युतोपलास्तेषां शोभा संप्रापे प्राप्ता । कर्मणि लिट् । 'गण्डशैलास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः । अत्रान्यशोभाप्राप्त्यसंभवात्तत्सदृशी शोभेति प्रतिबिम्बत्वाक्षेपान्निदर्शनालंकारः ॥
निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर्मदजलमुज्झतामजस्रम् । |
निःशेषमिति ॥ गन्धं वहतीति गन्धवाहो वायुः । कर्मण्यम् । निःशेषं यथा तथा प्रशमितो रेणुर्येन तन्मदजलं स्रोतोभिर्मदनाडीभिरजस्रमुज्झतां वर्षतां वारणानां संबन्धिनं व्यवहितस्तिरस्कृतो भूरिर्बहुल: पुष्पगन्धो येन सः । भिन्नाः फुल्ला एला लता- विशेषाः । 'पृथ्वीका चन्द्रवालैला' इत्यमरः। तत्पुष्पाणि चैलाः । 'पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले' इत्यमरः । भिन्नैलावत्सुरभिं घ्राणेन्द्रियतर्पणमित्युपमा । आमोदं परिमलमुवाह वहति स्म ॥
सादृश्यं दधति गभीरमेघघोषैरुन्निद्रक्षुभितमृगाधिपश्रुतानि । |
सारश्यमिति ॥ गभीरैर्मेघघोषैः सान्द्रगर्जितैः सादृश्यं दधतीत्युपमा । दधातेः शतृ-