यथायथं ताः सहिता नभश्चरैः प्रभाभिरु[१]द्भासितशैलवीरुधः । |
यथायथमिति ॥ यथायथं यथास्वम् । स्वकीयमनतिक्रम्येत्यर्थः । 'यथास्वं तु यथायथम्' इत्यमरः । नपुंसकनिपातनं तु ह्रस्वार्थम् । नभश्चरैर्गन्धर्वैर्मेधैश्च सहिताः प्रभाभिः स्वदीप्तिभिरुद्भासिताः शैलवीरुधो याभिस्ताः पूर्वोक्ता वनजायतेक्षणाः पद्मलोचनाः स्त्रियो वनं विशन्त्यः क्षणं द्युतिर्यासां तासां क्षणद्युतीनां विद्युतामेकरूपतां समानरूपतां दधुः । मुहुर्द्रुमान्तराले तासां स्फुरणस्य क्षणिकत्वादिति भावः । श्लेषा- नुप्राणितेयमुपमा । श्लेषत्वमिति केचित् । उभयथाप्यनुप्रासेन संसर्गः ॥
निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तनिर्ह्लादिविभूषणारवः । |
निवृत्तेति ॥ निवृत्तो गतो वृत्तस्य वर्तुलस्योरुपयोधरस्य क्लमो यस्मिन्स पादप्रक्षेपेषु । विश्रान्तिसंभवादिति भावः । किंच । प्रवृत्तो जातो निह्रादिविभूषणानां नूपुरादीनामारवो यस्मिन्सः । अवनौ पृथिव्यां परिक्रमः संचारो नितम्विनीनां नभ:प्रयाणाद्भृशमधिकम् । 'पञ्चमी विभक्ते' इति पञ्चमी । धृतिं संतोषमादधे । अत्र विशिष्टपरिक्रमस्य धृत्यादानहेतुत्वात्काव्यलिङ्गमलंकारः ॥
धनानि कामं कुसुमानि बिभ्रतः क[२]रप्रचेयान्यपहाय शाखिनः । |
घनानीति ॥ धनानि सान्द्राणि । न तु विरलानि । करप्रचेयानि हस्तग्राह्याण्यनुच्चानि। 'कृत्यैरधिकार्थवचने' इति तृतीयासमासः । कामं कुसुमानि बिभ्रतो नवकुसुमि- ताञ्छाखिनस्तरूनपहाय सुरसुन्दरीजनैः पुरोऽग्रेऽभिसस्त्रेऽभिसृतम् । भावे लिट् । तथा हि । कामिनो गुणेष्वतिशयेषु विषय उत्तरमुत्तरम् । वीप्सार्थेऽव्ययीभावः । यथोत्तरमिच्छा येषां ते यथोत्तरेच्छा उत्तरोत्तराभिलाषुका हि । अत्र परिकरोत्थापि- तोऽर्थान्तरन्यासोऽलंकारः ॥
तनूरलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः । |
तनूरिति ।। विलेपनामोदैर्हृता आकृष्टा वनालयो वनभृङ्गास्तनूः कृशा अलक्तैररुणाः पाणय एव पल्लवा यासां ताः स्फुरन्तो नखांशूनामुत्कराः पुञ्जा एव मञ्जर्यस्ता बिभ्रतीति तथोक्ताः। क्विप् । विलासिनीनां बाहव एव लतास्ताः सिषेविरे । अत्र समस्तवस्तु- विषयरूपकालंकारः । बाह्ववयवानां लतावयवानां पल्लवादीनामपि निरूपणादिति ॥