समुन्नतैरिति ॥ समुन्नतैः काशान्यश्वबालकुसुमानि तानि दुकूलानीव तैः शालन्त
इति तथोक्तैः सारसपङ्क्तयो मेखला इव ताः परिक्वणन्त्यो येषु ते तैः स्वेषां कलत्राणि
श्रोण्यस्तद्वच्चारवस्तैः । 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । प्रतीरदेशैर्विभूषितास्तटप्रदेशैर्भूषिताः
कुञ्जसमुद्रयोषितः । वननद्य इत्यर्थः । अत्र तीरादीनां कलत्राद्यौपम्योपमेयत्वाद्योषि-
च्छब्दसामर्थ्याच्च नदीनां योषिदौपम्यं गम्यते ॥
विदूरपातेन भिदामुपेयुषश्च्युताःप्रवाहादभितःप्रसारिणः । |
विदूरेति ॥ विदूरपातेन भिदां भेदम् । "षिद्भिदादिभ्योऽङ्' । उपेयुष उपगतात्प्रवाहाच्च्युता अतएवाभितः प्रसारिणः प्रसर्पन्त इति प्रियाया अङ्क उत्सङ्ग इव शीताः शीतलाः शुचीनां मौक्तिकानां त्विष इव त्विषो येषां ते । किंच वनस्य प्रहासा इव स्थिता इत्युत्प्रेक्षा । वारिबिन्दवश्च । अत्रोपमयौरुभयोरुत्प्रेक्षायाश्च संसृष्टिः ।।
स[१]खीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः । |
सखीति ॥ द्वौ रेफौ वर्णविशेषौ येषां ते द्विरेफाः । भ्रमरशब्देन तदर्थो लक्ष्यते । 'द्व्यक्षरं मासमिति विदधाति' इति भाष्यकारः। स्थिरा निश्चला द्विरेफा एवाञ्जनानि तैः शारितानि शबलीकृतान्युदराणि येषां तैः। 'शारः शबलवातयोः' इति विश्वः । विसारिभिर्विस्तृतैः पुष्पाण्येव विलोचनानि तैः प्रेम्णा गुरूकृत आदरो यस्सिन्कर्मणि तत्तथा सखीजनं निरीक्षमाणाः पश्यन्त्य इव स्थिताः । कुतः । नम्रमूर्तयोऽवनताङ्ग्यो लताश्च । अत्र रूपकोत्प्रेक्षयोः संकरः ॥
उपेयुषीणां बृहतीरधित्यका मनांसि जह्रु: सुरराजयोषिताम् । |
उपेयुषीणामिति ॥मदेनारुणैरव्यक्तरागैः। 'अव्यक्तरागस्त्वरुणः' इत्यमरः । करिणां कपोलानां काषैः कपणैरुपाहितश्यामरुचो जनितकृष्णवर्णा इति तद्भूषणालंकारः। चन्दना मलयजाः । 'गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्' इत्यमरः । वृहतीरधिस्यका ऊर्श्वभूमीरुपेयुषीणां सुरराजयोषितां मनांसिजह्रु: । अत्र चतुःश्लोक्या नद्यादीनां विशिष्टानामेवाप्सरोमनोहरणहेतुत्वोक्त्या काव्यंलिङ्गमुन्नेयम् ॥
स्वगोचरेसत्यपि चित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् । |