समुच्छ्वसदिति ॥ समुच्छ्वसत्पङ्कजकोशकोमलैर्दलसत्कमलमुकुलमुग्धैरित्युपमा ।
नाभिभिःप्रतारिकाख्यैः । 'अथ नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका' इति केशवः ।
पुंलिङ्गतायां तु कविरेव प्रमाणम् । उपनीवि नीवीसमीपे । उपाहितश्रीणि जनितशोभानि
तथा वलीविभङ्गिषूर्मिमत्सु मध्येषु जघनस्थलेषु स्तनातिभारान्नम्रतां दधन्ति
विभ्राणानि । 'वा नपुंसकस्य' इति विकल्पाच्छतुर्नुमागमः । उदराणि च ॥
समानकान्तीनि तुषारभूषणै: सरोरुहेरस्फुटपत्रपङ्क्तिभिः । |
समानेति ॥ किंच। धर्माम्बुकणैः स्वेदोदकबिन्दुभिः समन्ततश्चितानि व्याप्तान्यनु- त्फुल्लविलोचनान्यविकसदक्षीण्यत एव तुषारभूषणैः शीकरपरिवृतैः।'तुषारौ हिमशीकरौ' इति शाश्वतः। अस्फुटपत्रपङ्क्तिभिरविकचदलावलिभिः। 'व्याकोशविकचस्फुटाः' इत्यमरः । सरोरुहैः समानकान्तीनीत्युपमा। मुखानि च ॥
विनिर्यतीनां गु[१]रुखेदमन्थरं सुराङ्गनानामनुसानुवर्त्मनः। |
विनिर्यतीनामिति॥ सविस्मयं रूपयतः पूर्वोक्तचरणादीनि वर्णयतो नभश्चरान्गन्धर्वो- स्तत्पूर्वमिव तदेव प्रथमं यथा तथेत्युत्प्रेक्षा । ईक्षणादर आलोकनकौतुकं विवेश । पूर्वार्धं व्याख्यातम् । अत्र कुलके स्वभावोक्तिरुत्प्रेक्षाङ्गम् ॥ संप्रति सलिलक्रीडावर्णनमारभते-
अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः । |
अथेति ॥ अथ पुष्पावचयानन्तरं स्फुरद्भिश्चलद्भिर्मीनैर्विधूतपङ्कजेति । सदृङ्मुख- वीक्षणोक्तिः। विपङ्कं पङ्करहितम् । विहारयोग्यमिति यावत् । तत्र तीरे स्खलिता विचलितोर्मिसंहतिर्यस्याः सेति हस्तसंज्ञोक्तिः। कलहंसनादिनी कादम्बशब्दवतीति वाग्व्यापारोक्तिः। अत एव सुरापगा गङ्गा वधूरप्सरसः पयोऽवगाढुमवगाहितुम्। गाहरुदितत्वादिङ्विकल्पः । समाजुहावेवाकारयामासेवेत्युत्प्रेक्षा । 'हूतिराकारणाह्वानम्' इत्यसरः । हूयतेर्लिट् । 'अभ्यस्तस्य च' इति संप्रसारणम् ॥
प्रशान्तधर्माभिभवः शनैर्विवान्विलासिनीभ्यः परिमृष्टपङ्कजः । |
प्रशान्तेति ॥ प्रशान्तधर्माभिभवः प्रशान्तोष्णवाधः। 'वा दान्तशान्त-' इत्यादिना निपातनात्साधुः। शनैर्विवान्मन्दं वहन् । वातेः शतृप्रत्ययः। परिमृष्टपङ्कजः । पद्मग-
- ↑ 'परिखेद' इति पाठः