पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
किरातार्जुनीये

'लट: शतृशानचौ-' इत्यादिना शतृप्रत्ययः । पुनर्लङ्घहणसामर्थ्यात्प्रथमासामानाधि- करण्यम्, । महात्मभिः समम् । सहेत्यर्थः । 'साकं सत्रा समं सह' इत्यमरः । अनार्य- संगमाहुर्जनसंसर्गात् । 'पञ्चमी विभक्ते' इति पञ्चमी । विरोधोऽपि वरं मनाक्प्रियः । ‘देवादृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये' इत्यमरः । अत्र मैत्र्यपेक्षया मनाक्प्रियत्वं विरोधस्य ‘भूतिं समुन्नयन्' इत्यस्य पूर्ववाक्यान्वये समाप्तस्य वाक्यार्थस्य पुनरा- दानात्समाप्तपुनरात्ताख्यानदोषापत्तिः। तदुक्तं काव्यप्रकाशे--‘समाप्तपुनरादांनात्स- माप्तपुनरात्तकम्” इति। न च वाक्यान्तरमेतत् । येनोक्तदोषपरिहारः स्यात् । अर्थान्तरन्यासोऽलंकारः। स च भूतिसमुन्नयनस्य पदार्थविशेषणद्वारा विरोधवत्त्वं प्रति हेतुत्वाभिधानरूपकाव्यलिङ्गानुप्राणित इति ।।

 ननु ‘कातर्यं केवला नीतिः' इत्याशङ्क्य नीतियुक्तं पौरुषमस्येत्याह--

कृतारिषड्वर्गजयेन मानव्रीमगम्यरूपां पदर्वीं प्रपित्सुना।
विभज्य नक्तंदिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ॥९॥

 | कृतेति ॥ षण्णां वर्गः षड्वर्गः । अरीणामन्तःशत्रूणां कामक्रोधादीनां षड्वर्गोऽरि- षड्वर्गः । शिवभागवतवत्समासः । तस्य जयः कृतो येन तेन तथोक्तेन । विनीतेनेत्यर्थः । विनीताधिकारं प्रजापालनमिति भावः । अगम्यरूपां पुरुषमात्रदु:प्राप्याम् । मनोरिमां मानवीम् । मनूपदिष्टसदाचारक्षुण्णामित्यर्थः । पदवीं प्रजापालनपद्धतिं प्रपित्सुना प्रपत्तुमिच्छुना । प्रपद्यतेः सन्नन्तादुप्रत्ययः । ‘सनि ममा--' इत्यादिनेसादेशः । ‘अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । अस्ता तन्द्रिरालस्यं यस्य तेनास्ततन्द्रिणा । अनलसेनेत्यर्थः । तदिः सौत्रो धातुः । तस्मात् ‘वङ्क़्यादयश्च' इत्यौणादिकः किन्प्र- त्ययः । 'कृदिकारादक्तिनो वा ङीप् वक्तव्यः' इति । 'वन्दीघटीतरीतन्द्रीति ङीप- न्तोऽपि' इति क्षीरस्वामी । तथा रामायणे प्रयोगः--‘निस्तन्द्रिरप्रमत्तश्च स्वदोषपर- दोषवित्' इति । तेन दुर्योधनेन । पुरुषस्य कर्म पौरुषं पुरुषकारः । उद्योग इति यावत् । युवादित्वादण्प्रत्ययः ।'पौरुषं पुरुषस्योक्ते भावे कर्मणि तेजसि'इति विश्वः । नक्तं च दिवा च नक्तंदिवम् । अहोरात्रयोरित्यर्थः ।'अचतुर-' इत्यादिनां सप्तम्य- र्थवृत्त्योरव्ययोर्द्वन्द्वनिपातेऽच्समासान्तः । विभज्यास्यां वेलायामिदं कर्मेति विभागं कृत्वा नयेन नीत्या वितन्यते विस्तार्यते ॥

 संप्रति भृत्याद्यनुरागमाह---

सखीनिव प्रीतियुजोऽनुजीविनः समानमानान्सुहृदश्च बन्धुभिः ।
स संततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ॥१०॥

 सखीनिति ॥ गतस्मयो निरहंकारोऽतएव स दुर्योधनः संततमनारतं साधु सम्यक् । अंकपटमित्यर्थः । अनुजौविनो भृत्यान्। प्रीतियुजः स्निग्धान्सखीनिव मित्राणीव। दर्शयते । लौकस्येति शेषः। ‘हेतुंमति च' इति णिच् ।'णिचश्च'इत्यात्मनेपदम् । शोभनं