उदस्येति ॥ दयितेन धैर्यं काठिन्यमुदस्यापनीय । अनुनीयेत्यर्थः । सादरं यथा
तथा प्रसादितायाः सौमनस्यं गमिताया नतभ्रुवः स्त्रियः संबन्धि करवारिभिर्वारित-
भवरुद्धमतएव निमीलती नयने यस्य तन्मुखं सपत्नीवदनादिव श्रियमाददे जग्राह ।
तदानीं तद्वदनस्य निःश्रीकत्वात्तदीयश्रीग्रहणमुत्प्रेक्ष्यते ॥
विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः । |
विहस्येति॥ धृताम्भसि प्रियसेचनार्थं गृहीतजले पाणौ । अञ्जलावित्यर्थः। प्रियेण विहस्य विधृतेऽवलम्बिते सति । अतएच मदनार्द्रचेतसो मदनपरवशाया वध्वाः संबन्धि वीतोच्चयबन्धं मुक्तनीविग्रन्थि । स्रंसमानमित्यर्थः । अंशुकं पयसा धनीकृता काञ्ची सखीव बभार जग्राह । स्त्रीणां किल स्त्रीष्वेवायत्तं लज्जारक्षणमिति भावः ।।
निरञ्जने साचिविलोकितं दृशावयावकं वेपथुरोष्ठपल्लवम् । |
निरञ्जन इति ॥ नतभ्रुवोऽङ्गनाया विग्रहे वपुषि निरञ्जने निर्धौतकज्जले दृशौ विलोचने कर्म साचिविलोकितं तिर्यगीक्षणं कर्तृ मण्डयति स्म । 'तिर्यगर्थे साचि तिरः' इत्यमरः । अयावकं क्षालितलाक्षारागमोष्ठपल्लवं वेपथुः कम्पो मण्डयति स्म। 'ट्वितोऽथुच्' इत्यथुच्प्रत्ययः । अतिलकं तिलकरहितं तदास्पदं तिलकस्थानं ललाटम् । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । बलिक्रिया रेखाबन्धश्च मण्डयति स्म । तदा निरलंकारस्याङ्गनाशरीरस्य तच्छरीरविकारैरेवालंकारः समजनीत्यर्थः ।।
निमीलदाकेकरलोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः । |
निमीलदिति ॥ प्रियोपकण्ठं प्रियसमीपे । अत्यन्तसंयोगे द्वितीया । निमज्जतीनां विगाहमानानामतएव निमीलन्ति निमिषन्त्याकेकराण्याकेकरवन्ति लोलानि चक्षूंषि यासां तासाम् । आकेकरलक्षणं तु नृत्यविलासे-'दृष्टिराकेकरा किंचित्स्फुटापाङ्गे प्रसारिता । मीलितार्धपुटा लोके ताराव्यावर्तनोत्तरा' इति । तासां स्त्रीणाम् । कृतो गात्राणां वेपथुः कम्पो येन सः । श्वसितैर्निःश्वासैरुद्धतावुत्पतितौ स्तनौ येन सः। श्रमः खेदो तु भदनो नु पप्रथे प्रादुर्बभूव । निमज्जनप्रियसंनिधानरूपोभयकारणसं- भवान्नेत्रनिमीलनगात्रकम्पनिःश्वासधारणाञ्च संदेहः । स एवालंकारः ॥
प्रियेण सिक्ता चरमं विपक्षतश्चुकोप काचिन्न तुतोष सान्त्वनैः। |
प्रियेणेति ॥ काचित्प्रियेण विपक्षतः सपत्नीतश्चरमं पश्चात्सिक्ता सती चुकोप ।
- ↑ 'चेतसि' इति पाठः