प्रेम हित्वा विहाय विरमन्त्या निवर्तमानया । 'च्याङ्परिभ्यो रमः' इति परस्मैपदम् ।
संध्यया चापलेनास्थैर्येण । युवादित्वादण्प्रत्ययः । सुजनादितरो दुर्जनस्तस्य मैत्री
सख्यमनुविदधेऽनुचक्रे । कर्मणि लिट् । यथा दुर्जनमैत्री स्निह्यन्तमपि जहाति
तद्वत्संध्यापि सेवमानं जनमहासीदित्यर्थः । मित्रस्य कर्म मैत्री । अणन्तान्ङीप् । अत्र
संध्यादुर्जनमैत्र्योश्चापलं समानधर्मोऽनुविधानम् । अत एवार्थरूपेणेयमुपमा ॥
औषसातपभयादपलीनं वासरच्छविविरामपटीयः। |
औषसेति ॥ औषसात्प्राभातिकादातपाद्भयं तस्मादिवेत्युत्प्रेक्षा । अपलीनं क्वचिद्रूढं वासरच्छवेरातपस्य विरामाद्धेतोः । पटीयः प्रभविष्णुतरम् । अन्धं करोतीत्यन्धकारं ध्वान्तम् । 'अन्धकारोऽस्त्रियां ध्वान्तम्' इत्यमरः । अथ संध्यापगमनानन्तरं शनकैर्मन्दमन्दं निम्नात्संनिपत्यागत्य समानि समस्थलान्युदवाप व्यानशे। अत्र प्रस्तुता- न्धकारविशेषणसाम्यादप्रस्तुतार्थप्रतीतेः समासोक्तिरलंकारः। उत्प्रेक्षा त्वङ्गतः स्यात् ।।
एकतामिव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे । |
एकतामिति ॥ एकतामभेदं गतस्येव तमोव्याप्त्या तथा प्रतीतेरियमुत्प्रेक्षा । महतः शैलादेरपि कस्यचित्कस्यापि पदार्थस्य विवेको भेदो नोपलेभे न गृहीतः।अतएवोत्प्रेक्षते- पतितेनास्तमितेन भास्वता सूर्येण । 'भास्वद्विवस्वत्सप्ताश्व--' इत्यमरः । भुवनानाम् । भुवनस्थपदार्थानामित्यर्थः । विशेषा भूधरादिभेदा आत्मनि स्वस्मिन्नेव निदधिर इव निहिता इव । कथमन्यथा नोपलभ्येरन्नित्यर्थः । अत्रोत्प्रेक्षयोः सजातीययोः सापेक्षत्वादङ्गाङ्गिभावेन संकरः ।।
इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानाम् । |
इच्छतामिति ॥ वधूभिः स्वकामिनीभिः सहाभेदमवियोगमिच्छताम् । तथा संकल्पवतामपीत्यर्थः । यामिनीषु विरहिणाम् । नियतवियोगानामित्यर्थः। रहतेरावश्यकेऽर्थे णिनिः । यद्वा निन्दायामिनिः। तेषां विहगानां चक्रवाकाणां मिथुनानि वियोगमापुरेव । न तु नापुरित्ययोगव्यवच्छेदः । तथाहि । कालनियोगो दैवाज्ञा न लङ्घ्यते खलु । दुर्वार इत्यर्थः॥
यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ । |
यच्छतीति ॥ शकुन्तौ चक्रवाकपक्षिणि । सामान्यस्य प्राकरणिकविशेषपर्यवसानात् । 'शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः' इत्यमरः । अन्तिकगते समीपस्थेऽपि