दयितायै चक्रवाक्यै प्रतिमुखमभिमुखं यथा तथा वाचं यच्छति वाचमेव ददाने । न
तु संगच्छमाने सतीत्यर्थः । 'पाघ्राध्मा--' इत्यादिना दाणो यच्छादेशः । अम्बुरुहिण्या
नलिन्योज्झितहर्षं चक्रवाकदुर्दशादर्शनादिव त्यक्तविकासं पङ्कजं मुखमिव नतिं
नम्रत्वं नीयते स्म नीतम् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति नयतेर्द्वि-
कर्मकत्वात्प्रधाने कर्मणि लिटू । प्रायेण दुःखदर्शनात्स्त्रियः खिद्यन्ते । विशेषेण विरह-
दर्शनादिति भावः । अत्र पङ्कजावनतेश्चक्रवाकविक्रोशानन्तर्यात्तद्धेतुकत्वमुत्प्रेक्ष्यते ।
तच्च मुखोपमेयमम्बुरुहिण्या कामिनीसाम्यं गमयन्त्या निरुह्यत इत्युपमोत्प्रेक्षयोरङ्गा-
ङ्गिभावेन संकरः । व्यञ्जकाप्रयोगात्प्रतीयमानोत्प्रेक्षा ॥
रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु। |
रञ्जिता इति ॥ तिमिरेणान्धकारेण विविधास्तरवः शैलाश्च रञ्जिताः स्वसावर्ण्य- मापादिता नु । अन्यथा कथमेषां नीलाढ्यत्वमिति भावः । तथा गगनं नामितं तु। आभूतलादिति शेषः । "मितां ह्रस्वः' इत्यत्र वाशब्दानुवृत्त्या व्यवस्थितविभाषाश्रयणान्न ह्रस्वः । यद्वा गगनं स्थगितमाच्छादितं नु । उभयत्रापि तमसावृतत्वान्न दृश्यत इति भावः । तथा धरित्री विषमेषु निम्मोन्नतेषु पूरिता समीकृता नु । अन्यथा तद्विवेकः कथं न स्यादिति भावः । ककुभो दिशश्च संहृता नु लुप्ताः किम् ।'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । कथमन्यथा न दृश्यन्त इति भावः । अत्र तिमिरे तरुशैलाद्यनेकविषयरञ्जकत्वादिकमारोप्य संदिग्ध इति संदेहालंकारः । अनेन नुशब्दस्य संभावनाद्योतकत्वमत्रोत्प्रेक्षाप्रकारमित्यलंकारसर्वस्वकारः ॥
रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय । |
रात्रीति ॥ श्रीः शोभा कर्त्री रात्रे संध्याया रागेण स्वच्छायोपरञ्जनेन मलिनान्यत एव विकासं रहयन्ति त्यजन्ति । रहयतेस्त्यागार्थाच्छतृप्रत्ययः । पङ्कजानि विहाय त्यक्त्वा स्पष्टतारकं नमः खमियाय पाप । तथाहि । सर्वो जनो निरापदि निर्बाधस्थले वस्तुं स्थातुम् । 'एकाच उपदेशेऽनुदात्तात्' इतीट्प्रतिषेधः। 'घसिश्च सान्तेषु वसिः प्रसारिणीः' इति वचनात् । इच्छति ॥ अस्तादिसंध्यान्तं वर्णयित्वा चन्द्रोदयवर्णनमारते-~-
व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः । |
व्यानश इति ॥ शशधरेण चन्द्रेण विमुक्तः क्षिप्तः केतकीकुसुमकेसर इव पाण्डुर्लभ्भिता प्रापिता कान्तिर्यस्य सोऽशुसमूहो रश्मिसमूहश्चूर्णस्य कर्पूरक्षोदस्य मुष्टिरिव ।