मुष्टिशब्दस्य द्विलिङ्गत्वेऽप्यत्र पुंलिङ्गतैव ग्राह्या । उपमेयानुसारात् । वासवस्येन्द्रस्य
दिशं प्राचीं व्यानशे व्याप । अनेन दिशानिशाकरयोर्नायिकानायकौपम्यं गम्यते ॥
उज्झती शुचमिवा[१]शु तमिस्रा[२]मन्तिकं व्रजति ता[३]रकराजे । |
उज्झतीति ॥ इन्द्रस्येयमैन्द्री दिक्प्राची तारकराजे नक्षत्रनाथे। 'कनीनिकायां नक्षत्रे तारकं तारकापि च' इति विश्वः । अन्तिकं समीपं व्रजति सति । आशु तमिस्रामन्ध- तमसम् । 'तमिस्रा स्त्री ध्वान्तनिशि निश्यन्धतमसे न ना' इति वैजयन्ती। शुचमिव । विरहदुःखमिवेत्यर्थः । उज्झती विजहती प्रसादो नैर्मल्यमेव गुणः स एव मण्डनं यस्य तत् । रश्मयो हास इव तेन विशदं मुखमिव मुखमग्रभागम् । श्लिष्टोपमेयम् । ऊहे वहति स्म । अत्र दिक्चन्द्रयोर्नायिकानायकौपम्यं गम्यते ॥
नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः। |
नीलेति ॥ शैलरुद्धवपुष उदयगिरितिरोहितमण्डलस्य सितरश्मेरिन्दोः संबन्धि नीलनीरजनिभे श्यामकमलतुल्ये ख आकाशे निपतत्प्रसरत् । हिमवद्गौरं शुभ्रं करजाल- मंशुसमूहो वारिधेः पयसि निपतङ्गाङ्गमम्भ इव । रराज । उपमानेऽपि विशेषणानि योज्यानि ॥
द्यां निरुन्धद[४]तिनीलघनाभं ध्वान्तमुद्यतकरेण पुरस्तात् । |
द्यामिति ॥ द्यां निरुन्धदाकाशमावृण्वदतिनीलघनाभं मेचकम् । उद्यताः करा अंशवो हस्ताश्च यस्य तेन । असिताभ्य इतराः शुभ्रा भासो यस्य तेन चन्द्रेण पुरस्तात्प्राच्यामग्रे च क्षिप्यमाणं नुद्यमानं ध्वान्तं शंभुना क्षिप्यमाणं करिचर्मेव चकासे । उपमानेऽपि विशेषणानि योज्यानि ॥
अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां ज[६]हति दीधितिजाले |
अन्तिकेति ॥ अन्तिकान्तिकेऽतिसमीपे । 'प्रकारे गुणवचनस्य' इति द्विर्भावः। कर्मधारयवद्भावात्सुपो लुक् । अन्तिकान्तिकगतेनेन्दुना विसृष्टे मुक्ते दीधितिजाले किरणसमूहे जिह्मतां संकोचं जहति त्यजति सति तिमिरभारैस्तमःस्तोमैर्निरोधादुपरोधान्निःसृतो निर्गतो दिगन्त उच्छ्रसन्प्राणन्निव रराजेत्युत्प्रेक्षालंकारः ॥