पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः ।


हृदयं येषां तान्सुहृदो मित्राणि च । 'सुहृद्दुर्हृदौ मित्रामित्रयोः' इति निपातः । बन्धु- भिर्भ्रात्रादिभिः समानमानांस्तुल्यसत्कारादर्शयते । बन्धूनां समूहो बन्धुता ताम् । 'ग्रामजनबन्धुसहायेभ्यस्तल्'।कृतमाधिपत्यं स्वाम्यं यस्यास्तां कृताधिपत्यामिव दर्शयते। बन्धूनधिपतीनिव दर्शयतीत्यर्थः । यथा भृत्यादिषु सख्यादिबुद्धिर्जायते लोकस्य तथा तान्संभावयतीत्यर्थः । अनुजीव्यादीनाम् 'कर्तुरीप्सिततमं कर्म' इति कर्मत्वम् । पूर्वे त्वस्मिन्नेव पदान्वये वाक्यार्थमित्थं वर्णयन्ति --स राजानुजीव्यादीन्सख्यादीनिव दर्शयते । सख्याय इव ते तु तं पश्यन्ति । सख्यादिभावेन पश्यतस्तांस्तथा दर्शयते । स्वयमेव च्छन्दानुवर्तितया स्वदर्शनं तेभ्यः प्रयच्छतीत्यर्थः । अर्थात्तस्येप्सितकर्मत्वम् । अणि कर्तरनुजीव्यादेः 'अभिवादिदृशोरात्मनेपदमुपसंख्यानम्' इति पाक्षिकं कर्मत्वम्। एवं चात्राण्यन्तकर्मणो राज्ञोऽण्यन्ते कर्तृत्वेऽपि ‘आरोहयते हस्ती स्वयमेव' इत्यादिवदश्रूयमाणकर्मान्तरत्वाभावान्नार्यं णेरणादिसुत्रस्य विषय इति मत्वा'णिचश्च' इत्यात्मनेपदं प्रतिपेदिरे । भाष्ये तु णेरणादिसुत्रविषयत्वमप्यस्योक्तम् । यथाह--- "पश्यन्ति भृत्या राजानम्', ‘दर्शयते भृत्यान् राजा','दर्शयते भृत्यै राजा' अत्रात्मनेपदं सिद्धं भवति” इति। अत्राह कैयट:--‘ननु कर्मान्तरसद्भावादत्रात्मनेपदेनं भाव्यम् । उच्यते--अस्मादेवोदाहरणाद्भाष्यकारस्यायमेवाभिप्राय ऊह्यते । अयन्तावस्थायां ये कर्तृकर्मणी तद्वयतिरिक्तकर्मान्तरसद्भावादात्मनेपदं न भवति । यथा--'स्थलमारोह- यति मनुष्यान्' इति । इह त्वण्यन्तावस्थायां कर्तॄणां भृत्यानां णौ कर्मत्वमिति भवत्येवा- त्मनेपदमिति ।।

 न चायं त्रिवर्गात्प्रमाद्यतीत्याह-

असंक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया ।
गुणानुरागादिव सख्यमीयिवान्न बाधतेऽस्यत्रिगणः परस्परम् ॥११॥

 असक्तमिति ॥ यथायथं यथास्वं विभज्य। असंकीर्णरूपं विविच्येत्यर्थः ।'यथास्वे यथायथम्' इति निपातनाद्द्विर्भावो नपुंसकत्वं च । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्रस्वंत्वम् । पक्षे पातः पक्षपात आसक्तिविशेषः समस्तुल्यो यस्यां तया समपक्ष- पातया। भक्त्त्यानुरागविशेषेण । पूज्येष्वनुरागो भक्तिरित्युपदेशः । पूज्यश्चायं त्रिवर्ग इति । असक्तमनासक्तम् । अव्यसनितयेति यावत् । आराधयतः सेवमानस्यास्य दुर्योधनस्य त्रयाणां धर्मार्थकामानां गणस्त्रिगणस्त्रिवर्गः । ‘त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकै:' इत्यमरः । गुणानुरागात्तदीयगुणेष्वनुरागात् । गुणवदाश्रयलोभादित्यर्थः । सख्यं मैत्रीम्। 'सख्युर्यः' इति यप्रत्ययः । ईयिवानुपगतवानिवेत्युत्प्रेक्षा । 'उपेयिवान- नाश्चाननूचानश्च' इति क्वसुप्रत्ययान्तो निपातः । ‘नात्रौपसर्गस्तन्त्रम्'इति काशिकाकार आह स्म। परस्परं न बाधते । समवर्तित्वादस्य धर्मार्थकामाः परस्परानुपमर्दैन वर्धन्त इत्यर्थः । उक्तं च---धर्मार्थकामा: सममेव सेव्या यो ह्येकसक्तः स जनो जघन्यः' इति ॥