तस्य कर्म दूत्यं दूतीव्यापार ईषे । दूतस्य भावकर्मणोर्यत्प्रत्ययः । तथा भूषितैरपि
विभूषणं प्रसाधनमीषे । औत्सुक्यातिरेकादिति भावः ॥
न स्रजो रुरुचिरे रमणीभ्यश्चन्दनानि विरहे मदिरा वा । |
नेति ॥ विरहे वियोगावस्थायां स्रजो माल्यानि चन्दनानि गन्धा मदिरा मद्यानि वा रमणीभ्यः । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानत्वाच्चतुर्थी । न रुरुचिरे न रोचन्ते स्म । हि यस्मात्प्रियसमागम एव रतेः साधनेषु स्रगादिषु रम्यतां मनोहरत्वम् । रुचिकरत्वमिति यावत् । उपधत्त आधत्ते । तदभावादरुचिर्युक्तैवेत्यर्थः । अतएव वैधर्म्यात्कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः । रम्यन्त एष्विति रम्याणि । 'पोर- दुपधात्' इति यत्प्रत्ययः । 'कृत्यल्युटो बहुलम्' इत्यधिकरणार्थः ॥
प्रस्थिताभिरधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः। |
प्रस्थिताभिरिति ॥ अधिनाथनिवासं प्रियगृहं प्रति प्रस्थिताभिः प्रचलिताभिर्ध्वम्सि- तानि खण्डितानि प्रियसखीवचनानि स्वयं प्रस्थानं लाघवायेत्येवंरूपाणि याभिस्ता- भिर्मानिनीभिः कोपनाभिः। 'स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये' इति लक्षणात् । अपहस्तितं निरस्तं धैर्यं येन स तथा सादयन्मानं शरीरं च कर्षयन्नपि । सदोषोऽपीत्यर्थः। मदोऽवललम्बे स्वीकृतः अज्ञानव्याजेन लाघवापह्नवसौकर्यादिति भावः॥
कान्तवेश्म बहु संदिशतीभिर्यातमेव रतये रमणीभिः । |
कान्तेति ॥ रतये सुरताय बहु संदिशतीभिरनेकं वाचिकं कथयन्तीभिः। संदेशव्यसनाद्गन्तव्यमप्यजानतीभिरित्यर्थः । रमणीभिः । कान्तवेश्म यातं प्राप्तमेव । न तु मध्ये मार्गान्निवृत्तमित्यर्थः । तथाहि । मन्मथेन परिलुप्तमतीनां स्खलितं विरुद्धाचरणमपि प्रायश उपकारि भवति ॥
आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलम् । |
आश्विति ॥ आशु कान्तमभिसारितवत्या अभिगतवत्याः । स्वार्थे णिच् । योषितः संबन्धि पुलकै रुद्धाचावृतौ कपोलौ यस्य तत् । खण्डा प्रसृष्टा पत्राणां पत्रलेखानां तिलकस्य चाकृतिः संनिवेशो यस्य तत्तथोक्तं मुखं कान्त्याखण्डं पूर्णमिन्दुं निर्जिगाय जयति स्मेत्यार्थीयमुपमा। 'जयति द्वेष्टि' इति दण्डिना सादृश्यार्थेषु गणनात् ।।