पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
किरातार्जुनीये


  अथाभ्यन्तरं रतमाह-

पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः ।
योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य ॥ ५० ॥

  पाणीति ।। रहस्येकान्त इति विश्रम्भातिशयोक्तिः । गद्गदवाचां स्खलद्भिरां योषितां संबन्धीनि पाणिपल्लवयोर्विधूननं कम्पनमन्तः सीत्कृतानि सीत्काराः । एतेन कुट्टमिताख्यो भाव उक्तः। 'अधरपीडनादौ सुखेऽपि दुःखवदुपचारः कुट्टमितम्' इति लक्षणात् । नयनानामर्धनिमेषा अर्धनिमीलितानि । रहस्येकान्ते गद्गदवाचां योषितामिति विशेषणसामर्थ्याद गद्गदकण्ठत्वं चेत्येतानि मदनस्यास्त्रतामुपययुः । अस्त्रवत्पुंसामुद्दी- पनान्यासन्नित्यर्थः । अत्र सीत्कारार्धनिमेषादिना सुखपारवश्यं व्यज्यते । तदुक्तं रति- रहस्ये--'स्वस्तता वपुषि मीलनं दृशोर्मूर्च्छना च रतिलाभलक्षणम् । श्लेषयेत्स्वजघनं मुहुर्मुहुः सीत्करोति गतलज्जिताकुला ॥' इति ॥

  अथ मधुपानवर्णनमारभते-पातुमित्यादिना ॥

पातुमाहितरतीन्यभिलेषुस्तर्षयन्त्यपुनरुक्तरसानि ।
सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः॥५१॥

  युवान आहितरतीनि वर्धितरागाण्यत एवापुनरुक्तरसानि पुनःपुनः पानेनाप्यपूर्व- स्वादान्यत एव तर्षयन्ति तृष्णोत्पादकानि । अतृप्तिकराणीत्यर्थः । सस्मितानि वधूनां वदनानि सोत्पलानि मधूनि च पातुमभिलेषुरिच्छन्ति स्म । अत्र प्रस्तुतानामेव वदनानां मधूनां च पानक्रियौपम्यस्य गम्यत्वात्केवलं प्राकरणिकविषयतया तुल्ययोगितालंकारः। 'प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥' इति लक्षणात् ॥

कान्तसंगमपराजितमन्यौ वारुणीरसनशान्तविवादे ।
मानिनीजन उपाहितसंधौ संदधे धनुषि नेषुमनङ्गः ॥५२॥

  कान्तेति ॥ कान्तसंगमेन पराजितमन्यौ त्यक्तरोषे । तदवधिकत्वात्तस्येति भावः । किंच वारुणीरसनेन मध्वास्वादेन शान्तो विवादो वाक्कलहादिर्यस्य तस्मिन् । अत उपाहितसंधौ प्रियैः सह कृतसंधाने मानिनीजने विषयेऽनङ्गो धनुषीषुम् न संदधे संधानं नाकरोत् । सिद्धसाध्ये साधनवैयर्थ्यादिति भावः॥

कुप्यताशु भवतानतचित्ताः कोपितांश्च वरिवस्यत यूनः।
इत्यनेक उपदेश इव स्म खाद्यते युवतिभिर्मधुवारः ॥५३॥

  कुप्यतेति ॥ यूनः प्रियान्कुप्यत यूनां कोपं जनयत । नात्र 'क्रुधद्रुह-' इत्यादिना यूनां संप्रदानत्वे चतुर्थी । तस्य 'ये प्रति कोपः' इति नियमात् । अत्र कोपस्तावत्कृ-