पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
नवम: सर्गः ।


चेत्यर्थः । षष्ठ्याश्चार्थसंबन्धात्सामान्यस्य योग्यविशेषे पर्यवसाननियमेनाधिकरणा- पादानार्थयोराक्षेपात् । तथा चाधरलोचनगुणयो रागतद्विरहयोः स्थानपरिवृत्तिं कृतवतीत्यर्थः । तथा वासितेन स्वगन्धसंक्रान्तिसुरभितेनाननेन विशेषितोऽतिशयितो गन्धो यस्याः सा । यद्वा वासितानना चासावर्थादाननेनैव विशेषितगन्धा चेति कृतबहुव्रीहिविशेषणसमासः। उभयथाप्याननसंक्रान्तस्वगन्धा स्वसंक्रान्ताननगन्धा चेत्यर्थः । एवंभूता वारुणी मदिरा परगुणात्मगुणानां परयोर्लोचनाधरयोर्गुणौ च परस्याननस्य गुण आत्मनो वारुण्या गुणश्च परगुणात्मगुणास्तेषां परगुणात्मगुणानां व्यत्ययं नु विनिमयं नु चितेने विस्तारयामास । चित्तेन प्रामादिकी वस्तुपरिवृत्तिर्व्य- त्ययः । बुद्धिपूर्वा तु विनिमयः। अत्र तन्त्रोच्चरितस्य परगुणशब्दस्यावृत्त्या परगुणौ च परगुणात्मगुणौ चेति विग्रहः कथंचिदगत्या सोढव्यः । उपमानपूर्वपदबहुव्रीहिवत् । तथा चायमर्थः । परगुणयोरधरलोचनगुणयो रागतद्विरहयोर्व्यत्ययं नु विनिमयं नु वितेने । तथा परगुणात्मगुणयोराननगन्धात्मगन्धयोश्च व्यत्ययं तु विनिमयं नु वितेने। अन्यथा कथमन्यस्मिन्नन्यधर्मोपलम्भः संभवतीति भावः। अत्र लोचनाधररागयोस्तद- भावयोर्वा भेदेऽप्यभेदाध्यवसायादेकत्ववाचो युक्तिः । तस्मात्तन्मूलातिशयोक्त्यनुप्राणिता चेयं व्यत्ययविनिमययोरन्यतरकरणोत्प्रेक्षेति संक्षेपः।सा च प्रतीयमाना। व्यञ्जकाप्रयोगात्। नुशब्दस्तु संशये ॥

तुल्यरूपमसितोत्पलमक्ष्णोः कर्णगं निरुपकारि विदित्वा ।
योषितः सुत्दृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः॥ ६१॥

  तुल्येति ॥ अक्ष्णोस्तुल्यरूपमक्षितुल्याकृति योषितः कर्णगं कर्णावतंसीकृतमसितो- त्पलं निरुपकार्यनुपकारकं विदित्वा ज्ञात्वा। तत्कार्यशोभायाः कर्णान्तविश्रान्तेनाक्ष्णैव कृतत्वादिति भावः । मदरागः सुहृदिवोत्पलस्य बन्धुरिव । अनिष्टवारकत्वादिति भावः । लम्भितेक्षणरुचिराहितनयनकान्तिः सन् । प्रविभेजे वर्णान्तरापादनेन प्रविभक्तवान्। अवैलक्षण्यकरादक्ष्णो व्यावर्तयामास । ततो विच्छित्तिकरत्वादिति भावः ।

क्षीणयावकरसोऽप्यतिपानै: का[१]न्तदन्तपद [२]संभृतशोभः।
आययावतितरामिव वध्वाः सान्द्रतामधरपल्लवरागः ॥ ६२ ॥

  क्षीणेति ॥ अतिपानैः क्षीणयावकरसः क्षीणलाक्षारागोऽपि कान्तस्य दयितस्य दन्त- पदेन दन्तक्षतेन संभृता शोभा यस्य सः । वध्वा अधरपल्लवरागोऽतितरामतिमात्रम् । अतिशब्दात्तरप्प्रत्यये 'किमेत्तिङ्ङव्यय-' इत्यादिनाम्प्रत्ययः। 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययसंज्ञा । सान्द्रतां घनत्वमाययाचिव । प्रियोपभोगचिह्नमण्डितानां कामिन्यवय- वानां किमन्यैर्मण्डनैरिति भावः । तत्र क्षीणस्यापि सान्द्रतेति विरोधात्कान्तदन्तेत्या- दिविशेषणगत्या सान्द्रत्वे हेतूक्त्या काव्यलिङ्गं तत्संकीर्णा चोत्प्रेक्षा ॥


  1. 'आर्द्र' इति पाठः
  2. 'लम्भित' इति पाठः