रागकान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु । |
रागेति॥ वनितानां सर्वगापि सर्वाङ्गगतापि । 'अन्तात्यन्त-' इत्यादिना ड:।मदश्री रागेण कान्तानि नयनानि येषु तेषु विद्रुमवदरुणानि कपोलतलानि येषु तेषु मुखेषु दर्पणेष्विव नितान्तं ददृशे । तेषां नयनादिनैर्मल्येन रागाभिव्यक्तिसंभवादिति भावः । अत्र मदश्री: सर्वगतापि मुखेष्वेव ददृश इति विरोधः। तस्य मुखविशेषणैः समाधा- नात्काव्यलिङ्गानुप्राणितो विरोधवदाभासोऽलंकारः । स चोपमया संसृज्यते ॥
बद्धकोपविकृतीरपि रामाश्चारुताभिमततामुपनिन्ये । |
बद्धेति ॥ बद्धा कोपेन विकृतिर्याभिस्तास्तथाभूता अपि रामाः कर्म चारुता तासां सौन्दर्यं कर्त्रा अभिमततां प्रियवाल्लभ्यमुपनिन्ये । सौन्दर्ये हि विकृतिमपि रोचयत इति भावः। मधुमदो दयितानां वश्यतां विधेयत्वमुपनिन्ये । तथाहि । सर्व आत्मवर्गहितमिच्छति । अतश्चारुता स्त्रीत्वात्स्त्रीणामुपचकार । मधुमदस्तु पुंस्त्वात्पुंसामिति युक्तमित्यर्थः । अत्र विकृता अप्यभिमताः कुपिता अपि वश्या इति विरोधस्य चारुतामदाभ्यां समाधानादुभयथापि विरोधाभासो भवन्नर्थान्तरन्यासेन संसृज्यते ॥
वाससां शिथिलतामुपनाभि ह्रीनिरासमपदे कुपितानि । |
वाससामिति ॥ उपनाभि नाभिसमीपे वाससां शिथिलतां ह्रीनिरासं लज्जात्यागमपदे कुपितान्यस्थानकोपांश्च गुणपक्षे गुणकोटौ विदधती निवेशयन्ती । दोषानप्येतान्गुणान्कुर्वतीत्यर्थः । मदिरापि योषितां वचनीयम् 'न नाभिं दर्शयेत्' इति शास्त्रनिषिद्धाचरणनिन्दां निर्ममार्ज । तथा दोषाणामपि वस्त्रशैथिल्यादीनां तदानीं गुणत्वान्न कश्चिद्वचनीयावकाश इत्यर्थः ।।
भर्तृषूपसखि निक्षिपतीनामात्मनो म[१]धुमदोद्यमितानाम् । |
भर्तृष्विति ॥ उपसखि सखीसमीपे । समीपार्थेऽव्ययीभावः । आत्मनः स्वदेहान् । 'आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि' इति वैजयन्ती । भर्तृषु निक्षिपतीनां निपातयन्तीनाम् । भर्तृणामुपरि पतन्तीनामित्यर्थः । 'आच्छीनद्योर्तुम्' इति विकल्पान्नु- मभावः । कुतः । मधुमदेनोद्यमितानां प्रेरितानाम् । न तु स्वेच्छयेति भावः । वनिता-