पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
किरातार्जुनीये


मर्दने' इति विश्वः । 'वाह प्रयत्ने' इति धातोरण्यन्तात्तुमुन् । अन्यथा णिज्ग्रहणे संवाहयितुमितिं स्यात् । मन्दमन्दं मन्दप्रकारम् । 'प्रकारे गुणवचनस्य' इति द्विर्भावे कर्मधारयवद्भावात्सुपो लुक् । समुपयान्संवान् रजनीपरिवृत्तिवायुर्निशावसानमरुत् । हर्म्येषु माल्यानि च मदिरा च परिभोगो विमर्दश्च तेषां गन्धानाविश्चकार । बहिः प्रसारयामा- सेत्यर्थः । अत्र संवाहितुमिवेत्युत्प्रेक्षा। मान्द्यगुणमूलत्वाद्गुणनिमित्तक्रियाफलोत्प्रेक्षा ॥

आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु ।
व्यामृष्टपत्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु म[१]दावशेषः ॥ ७७ ॥

  आमोदेति ॥ आमोदेन मद्यगन्धेन वासिताः सुरभिताश्चला दष्टमुक्तत्वात्स्फुर- न्तश्चाधरपल्लवा येषु तेषु निद्रया कषायितान्यपटूकृतानि विपाटलानि लोचनानि येषु तेषु । 'कषायस्तुवरे न स्त्री निर्यासे रञ्जकादिके । सुरभावपटौ रक्ते सुन्दरे लवणेऽपि च' इति केशवः । व्यामृष्टानि प्रमृष्टानि पत्राणि तिलकाश्च येषां तेषु विलासिनीनां नीनां वदनेषु मदावशेषः शोभा बबन्ध । मण्डनान्तरापाये मदशेष एच मण्डनं बभूवेत्यर्थः । स्त्रीणां मद एव विभूषणमिति भावः ॥

गतवति नखलेखाल[२]क्ष्यतामङ्गरागे समददयितपीताताम्रबि[३]म्बाधराणाम् ।
विरहविधुरमिष्टा सत्सखीवा[४]ङ्गनानां हृदयमवललम्बे रात्रिसंभोगलक्ष्मीः ॥ ७८ ॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये नवमः सर्गः।

  गतवतीति ॥ अङ्गरागेऽङ्गविलेपने नखलेखासु नखपदेषु लक्ष्यतां दृश्यतां गतवति सति । विमर्दात्तन्मात्रावशेषे सतीत्यर्थः । किं च बिम्बतुल्या अधरा बिम्बाधराः। 'शाकपार्थिवादित्वान्मध्यमपदलोपीसमानाधिकरणसमासः' इति वामनः । समदैर्दयितैः पीताः पीडिता अत एवातिपीडनादाताम्रा आसमन्ताद्वक्ता बिम्बाधरा यासां तासामङ्गनानां संबन्धि विरहेणाह्रिकेन वियोगेन विधुरं विह्वलं हृदयम् । रात्रिसंभोगलक्ष्मीः। नखपदादिशोभेत्यर्थः । इष्टाप्ता सत्सखीव निपुणसहचरीवावललम्बे धारयामास । प्रियसंभोगचिह्नशोभा स्पष्टा बभूवेत्यर्थः । प्रियोपभोगचिह्नशोभावलोकन-


  1. 'मदस्य शेषः' इति पाठः
  2. 'दृश्यतां' इति पाठः
  3. 'बिम्बाधरोष्ठ्याः' इति पाठः
  4. 'अङ्गनायाः'इति पाठ: