पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
किरातार्जुनीये


पदानां पङ्क्तिरानुपूर्वी यस्य स वेदः । चतुर्थवेद इत्यर्थः । अथर्वणस्तु मन्त्रोद्धारो वसिष्ठकृत इत्यागमः । स इव ताभिः स्त्रीभिः परिददृशे दृष्टः॥   अथ चतुर्मिस्तमेव विशिनष्टि-शशधरेत्यादिभिः ।।

शशधर इव लोचनाभिरामैर्गगनविसारिभिरंशुभिः परीतः ।
शिखरनिचयमेकसानुसद्मा सकलमिवापि द[१]धन्महीधरस्य ॥११॥

  शशधरश्चन्द्र इव लोचनाभिरामैर्नेत्राह्लादकरैर्गगनविसारिभिरंशुभिस्तेजोभिः परीतो व्याप्तोऽम्बरवदेकं सानु सद्म यस्य सः । एकदेशस्थोऽपीत्यर्थः। महीधरस्येन्द्रकीलस्य सकलं शिखरनिचयमपि दधदावृण्वन्निवेत्युत्प्रेक्षा ॥

सुरसरिति परं तपोऽधिगच्छन्विधृतपिशङ्गबृहज्जटाकलापः ।
हविरिव विततः शिखासमूहैः समभिलषन्नुपवेदि जातवेदाः ॥१२॥

  सुरेति ॥ पुनः । सुरसरिति गङ्गाकूले परं तपोऽधिगच्छन्नर्जयन् । फलाभिलाषेणेति शेषः । हविः समभिलषन्नित्युपमानविशेषणसामर्थ्यात् । तथा विधृतः पिशङ्गबृहज्ज- टाकलापो येन सः। अत एवोपवेदि वेद्याम् । विभक्त्यर्थेऽव्ययीभावः । शिखासमूहै- र्ज्वालाजालैर्विततो विस्तृतो हविराज्यादिकं समभिलषन् । जातं वेदो हिरण्यं यस्मादिति जातवेदा वह्निरिव स्थितः ।।

सदृशमतनुमाकृतेः प्रयत्नं तदनुगुणामपरैः क्रियामलङ्घ्याम् ।
दधदलघु तपः क्रियानुरूपं विजयवतीं च तपःसमांसमृद्धिम्॥१३॥

  सदृशमिति ॥ पुनः । आकृतेर्वपुषः। 'आकृतिः कथिता रूपे सामान्यवपुषोरपि' इति विश्वः । सदृशं तुल्यमतनुं महान्तं प्रयत्नमुद्योगं द्धत् । तथा तदनुगुणां प्रयत्ना- नुकूलामपरैरन्यैरलङ्घ्याम् । कर्तुमशक्यामित्यर्थः । क्रियां व्यापारं दधत् । तथा क्रिया- नुरूपं क्रियानुगुणमलघु गुरु तपो दधत् । तथा विजयवतीं सर्वोत्कर्षवतीं विजयफलां वा तपःक्रियानुरूपां तपःसमा समृद्धिमैश्वर्य दधत् । अत्र पूर्वं प्रत्युत्तरस्य विशेषणतया स्थापनात्प्रथमैकावल्यलंकार:---'यथापूर्वं परस्य विशेषणतया स्थापन एकावली' इति सर्वस्वसूत्रात् ॥

चि[२]रनियमकृशोऽपि शैलसारः शमनिरतोऽपि दुरासदः प्रकत्या ।
ससचिब इव निर्जनेऽपि तिष्ठन्मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ॥१४॥

  चिरनियमेति ॥ पुनश्च । चिरनियमेन दीर्घकालतपसा कृशः क्षीणाङ्गोऽपि शैलसारः। उपमानपूर्वपदो बहुव्रीहिः। शमे निरतोऽपि प्रकृत्या स्वभावेन दुरासदो दुर्धर्षो निर्जने विजने देशे तिष्ठन्नपि ससचिवः सपरिवार इव किं च । मुनिरप्यैश्वर्यरहितो-


  1. 'वसन्' इति पाठः
  2. 'यमनियम' इति पाठः