व्यथितमपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा । |
व्यथितमिति ॥ व्यथितं दुःखितमपिमनो भृशं हरन्ती। किमुत सुखितमिति भावः। जम्ब्वा: फलं जम्बु । 'बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम्' इत्यमरः । 'जम्ब्वा वा' इत्यणाभावपक्षेऽञि 'फले लुक्' इति लुक् । 'लुक्तद्धितलुकि' इति स्त्रीप्रत्ययनिवृत्तिः । जम्बु च तत्फलं चेति सामान्यविशेषयोः सह निर्देशः। यद्वा जम्ब्वा: फलमिति विग्रहः । 'इको ह्रस्वोऽङ्यो गालवस्य' इति ह्रस्वः । तस्य परिणतस्योपभोगेन हृष्टा । अत एव परभृतयुवतिः कोकिलाङ्गना नवनवं नवप्रकारं यथा तथा योजितेन संपादितेन कण्ठरागेण कण्ठमाधुर्येण रम्यम् । सौम्यमित्यर्थः । स्वनं स्वरं वितेने । वर्षास्वपि मधुराः कोकिलालापा इति प्रसिद्धिः॥
अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे। |
अभिभवतीति ॥ कदम्बवायौ कदम्बसंबन्धिनि मारुते मदमधुरे शिखण्डिनां निनादे च मनोऽभिभवत्यभिहरति सति जिष्णुर्जयनशीलोऽर्जुनो जनः पृथग्जन इव धृतेर्धैर्यान्न चचाल । वर्षा अपि तदुद्दीपनाय न शेकुरित्यर्थः । हि यस्मान्महतां समाधिभङ्गः सुकरो न । न केनापि कर्तुं शक्यत इत्यर्थः ॥
धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलमात्तबाणा । |
धृतेति ॥ बिसानि वलयानीव तेषामावलिर्धृता ययासा । कुमुदवनमेकं मुख्यं दुकूलमिव तद्वहन्ती । आत्ता गृहीता बाणा नीलझिण्टी यया सात्तबाणा, धृतशरा च । 'गृह्णीयात्क्षत्रिया शरम्' इति स्मरणात् । 'बाणोक्ता नीलझिण्टी च' इति वैजयन्ती। शरद्वधूर्जायेव धनसमयेन वर्षर्तुना । वरेणेति शेषः । अमलतले निर्मलतले सरोजं पाणिरिव तस्मिन्नाललम्बे जगृहे । कर्मणि लिट् । वधूवरसमागमवदृतुसंधिरशोभतेत्यर्थः । अत्र 'आत्तबाणा' इति झिण्टीशरयोर्बाणयोरभेदाध्यवसायाच्छ्लेषमूलातिशयोक्तिरुपमा- ङ्गमित्यनयोः संकरः ॥
अथर्तुसंधि वर्णयति-
समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या । |
समदेति ॥ समदशिखिरुतानि मत्तमयूरकूजितानि हंसनादैः समेत्य तथा कुमुदव-
- ↑ 'विचक्रे' इति पाठः