कथमिति ॥ विरचितमल्लिकाविकासो निदाधकालो ग्रीष्मो ऋतुभिर्वर्षादिभिः समं
मुनिनावधीरितस्य तिरस्कृतस्य तव संमतिर्लोके योग्यत्वेनानुमतिर्मान्यत्वं कथमिव
भवित्री । न संमानः कथंचिद्भविष्यतीत्यर्थः । इतीत्थं मधुर्वसन्तः । 'चैत्रे दैत्ये वसन्ते
च जीवे कोके मधुः स्मृतः' इति विश्वः । स्मयते स्मेव जहास किमित्युत्प्रेक्षा।'लट् स्मे'
इति भूतार्थे लट् । प्रहासस्य शुभ्रत्वेन कविप्रसिद्धेर्मल्लिकाविकासे ह्रासत्वाध्यवसायः।
अत्रर्तुभिः सममवधीरितस्येत्यत्राभेदाध्यवसायमूला सहोक्तिरलंकारः ।
संबन्धभेदभिन्नस्यावधीरणस्याभिन्नतयाध्यवसायात्तदेवावधीरणमसंमतिद्वारा
स्मयोत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन संकरः ॥
बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय । |
बलवदिति ॥ बलवत्प्रबलमपि । प्रकृष्टगामीति यावत् । मिथोविरोधि परस्परस्पर्धिबलं सैन्यम् । 'वरूथिनी बलं सैन्यम्' इत्यमरः । विपक्षनिर्जयाय शत्रुविजयाय । 'तुमर्थाच्च-' इत्यादिना चतुर्थी । शत्रूञ्जेतुमित्यर्थः । न प्रभवति न शक्नोत्येव । कुतः। यद्यस्मात्कारणाद्भुवनानां परिभवी जेतापि । 'जिदृक्षि-' इत्यादिनेनिप्रत्ययः। ऋतुगणस्तदानीं तमर्जुनं क्षणमपि नोन्मनीचकारानुन्मनसमुन्मनसं न चकार । 'अरुर्मनश्चक्षुः--' इत्यादिनाभूततद्भावे च्चिप्रत्ययः । सलोपश्च । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥
एवं तटस्थस्योद्दीपनसामग्री विफलेत्युक्तम् । संप्रति विपरीता जातेत्याह---
श्रुतिसुखमुपवीणितं सहायैरविरललाञ्छनहारिणश्च कालाः । |
श्रुतीति ॥ सहायैस्तासां सहचरैर्गन्धर्वैः । कृतमिति शेषः ।'न लोक-'इत्यादिना षष्ठीप्रतिषेधः । कर्तरि तृतीया । श्रुतिसुखं श्रोत्रमधुरमुपवीणितं वीणयोपगानम् । 'सत्यापपाश-' इत्यादिना वीणाशब्दाण्णिजन्ताभावे क्तः । अविरलैर्भूयोऽभिलाञ्छनैः पूर्वोक्तैः फलकुसुमादिभिश्चिह्नैर्हारिणो मनोहराः काला वसन्तादिऋतवोऽविहिताकृता हरिसूनोरर्जुनस्य विक्रिया मनोविकृतिर्यैस्तानि तथाभूतानि सन्ति ।'नपुंसकमनपुंसक-' इत्यादिना नपुंसकैकशेषः । त्रिदशवधूषु मनोभवं वितेनुर्विस्तारयामासुः । सोऽयं परप्रहारार्थमुद्यतमायुधं स्वात्मानमेव प्रहरतीति न्यायवज्जात इति भावः । अत्र मुनिविक्रियार्थं स्त्रीणां विक्रियारूपानर्थोत्पत्तिकथनाद्वितीयो विषमालंकारः। तथा च सूत्रम्-'विरूपकार्यानर्थयोरुत्पत्तिरूपसंघटनाद्विषमालंकारः' इति ॥