पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
किरातार्जुनीये


  तटस्थवदालम्बनगणोऽपि विपरीतोऽभूदिति श्लोकद्वयेनाह-

न दलति निचये तथोत्पलानां न च विषमच्छदगु[१]च्छयूथिकासु।
अभिरतिमुपलेभिरे यथासां हरितनयावयवेषु लोचनानि ॥ ३९ ॥

  नेत्यादि ॥ आसां लोचनानि हरितनयावयवेषु यथा तथा दलति विकसत्युत्पलानां निचयेऽमिरतिं नोपलेभिरे न प्रापुः। तथा विषमच्छदगुच्छाः सप्तपर्णस्तबका यूथिकमल्लिकाश्च तास्वभिरतिं नोपलेभिरे।'सप्तपर्णो विशालत्वक्शारदो विषमच्छदः'इत्यमरः। तथा रमणीयत्वात् । तदवयवानामित्यर्थः । इति चक्षुःप्रीतिरुक्ता ॥   अथ मनःसङ्गं सूचयति-

मुनिमभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन ।
मदनमुपदधे स एव ता[२]सां दुरधिगमा हि गतिःप्रयोजनानाम् ॥४०॥

  मुनिमिति ॥ या: स्त्रियः कमनीयता सौन्दर्यं सैव गुणस्तेन मुनिमर्जुनमभिमुखतां वश्यतां निनीषवो नेतुमिच्छवः समुपययुः । तासां स्त्रीणां स मुनिरेव मदनमुपदधे जनयामास। तथा हि । प्रयोजनानामुद्देश्यानां गतिः परिणतिर्दुरधिगमा हि दुर्ज्ञेया खलु । अतः कचिद्भवति क्वचिन्न भवतीति भावः ॥   अथासामनुरागमेव कार्यतः प्रपञ्चयति--

प्रकृतम[३]नुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा।
प्रथममुपहितं विलासि चक्षुःसिततुरगे न चचाल नर्तकीनाम् ॥४१॥

  प्रकृतमिति ॥ विलासि सविलासं नर्तकीनां संबन्धि।'शिल्पिनि ष्वुन्'इति ष्वुन्प्रत्ययः। 'नृत्तिखनिरञ्जिभ्य एव' इति नियमः । चक्षुः कर्तृ प्रकृतं प्रकान्तमभिनेयमभिनेतव्यं रसभावादिव्यञ्जकं नानुससार । तद्दूषणं तदानुगुण्येनैव दृष्टिप्रयोगनियमादिति भावः। तथा प्रविकसदङ्गुलि चञ्चलाङ्गुलि पाणिपल्लवं वा नानुससार ।स च दोषः ।'यतो हस्तस्ततो दृष्टिः' इति नियमादिति भावः । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः ।'वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये' इति विश्वः । किंतु प्रथमं प्रवेश एव सिततुरगेऽर्जुन उपहितं सन्न चचाल तत्रैव लग्नं तस्थौ। रागान्धैर्न किंचित्करणी- यमनुसंधेयमिति भावः ।

अभिनयमनसः सुराङ्गनाया निहितमलक्तकव[४]र्तनाभिताम्रम् ।
चरणमभिपपात षट्पदाली धृतनवलोहितपङ्कजाभिशङ्का ॥ ४२ ॥

  अभिनयेति ।। अभिनयो रसभावादिव्यञ्जकचेष्टाविशेषः । 'व्यञ्जकाभिनयौ समौ'


  1. 'कुन्द' इति पाठः
  2. 'तासु' इति पाठः
  3. 'अभिससार' इति पाठः
  4. 'वर्तनातिताम्रम्' इति पाठः