पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
दशमः सर्गः ।


इत्यमरः । तत्र मनो यस्यास्तस्याः । व्यासङ्गाद्भृङ्गापातमजानत्या इत्यर्थः । सुराङ्गनाया: संवन्ध्यलक्तकवर्तनया लाक्षारसरञ्जनेनाभिताम्रं निहितं न्यस्तं चरणं षट्पदाली कर्त्री धृता नवलोहितपङ्कजानामभिशङ्का प्रत्यग्रकोकनदभ्रमो यया साभिपपाताभिधावति स्म । अत्र षट्पदाल्याः स्त्रीचरणे पङ्कजभ्रमाभिधानाद्भ्रान्तिमदलंकारः । तेन चोपमा व्यञ्जत इत्यलंकारेणालंकारध्वनिः ॥

अविरलमलसेषु नर्तकीनां द्रुतपरिषिक्तमलक्तकं पदेषु ।
सवपुषमिव चित्तरागमूहुर्नमितशिखानि कदम्बकेसराणि ॥ ४३ ॥

  अविरलमिति ॥ नमितशिखानि नर्तकीपादपीडनान्नमिताग्राणि कदम्बकेसराणि। रङ्गपूजादत्तानीति शेषः । अविरलं सान्द्रं यथा तथा द्रुतो रागोष्मणा विगलितोऽत एव परिषिक्तः प्रसृतस्तं द्रुतपरिषिक्तं नर्तकीनामलसेषु पदेषु पादन्यासेष्वलक्तकं लाक्षारागं सवपुषं मूर्तिमन्तं चित्तरागमुत्कटतया कायाद्बहिर्निःसृतं मुनिविषयकं राग- मिवेत्युत्प्रेक्षा । ऊहुर्वहन्ति स्म ।

  अथासां शृङ्गारचेष्टां कथयति--

नृपसुतमभितः समन्मथायाः परिजनगात्रतिरोहिताङ्ग्यष्टेः ।
स्फुटमभिलषितं बभूव वध्वा व [१] दति हि संवृतिरेव कामितानि ॥४४॥

  नृपेति ॥ नृपसुतमर्जुनमभितः संमुखं परिजनस्य सखीजनस्य गात्रेण तिरोहिता लज्जया स्वाकारगोपनायान्तर्हिताङ्ग्यष्टिर्यस्याः सा तस्याः समन्मथाया वध्वा अमिलषितं मुनिं प्रत्यनुरागः स्फुटं बभूव । न च संव्रियमाणस्याभिव्यक्तिर्विरुद्धेति वाच्यमित्याह- यतः संवृतिः सम्यग्गोपनमेव कामितान्यनुरागान् । कामयतेर्भावे क्तः । वदति हि । प्रकटयतीत्यर्थः । अयमनुरागस्य स्वभाव उक्तः । यया चेष्टया रागः संव्रियते सैवास्य प्रकाशिका जातेति भावः ।।

अभिमुनि सहसा हृते परस्या धनमरुता जघनांशुकैकदेशे।
चकितमवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ॥४५॥

  अभिमुनीति ॥ अभिमुनि मुनिसमक्षं घनेन मरुता जघनांशुकस्यैकदेशे सहसा हृते सति सत्रपायाः सलज्जायाः परस्याः संबन्ध्यवसनौ निरावरणावूरू यस्मिम्स्तच्चकितं भयसंभ्रमः प्रतियुवतीरपि सपत्नीरपि विस्मयं निनाय । किमुतान्यजनमित्यपिशव्दार्थः। न तु मुनिमित्याशयः॥

धृतबिसवलये नि[२]धाय पाणौ मुखम[३]धिरूषितपाण्डुगण्डलेखम् ।
नृपसुतमपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ ॥ ४६॥


  1. 'कथयति' इति पाठ:
  2. 'विधाय' इति पाठ:
  3. 'अभिरूषित' इति पाठः