सललितेति ॥ सललितं सविलासं यथा तथा चलितेन विवर्तितेन त्रिकेण कटिभागेन।
'पृष्ठवंशाधरे त्रिकम्' इत्यमरः । अभिरामाः शिरसि जाताः शिरसिजाः। 'सप्तम्यां
जनेर्ड:' । 'अमूर्धमस्तकात्स्वाङ्गादकामे' इत्यलुक् । 'उपपदमतिङ्' इति समासः।
एतेन मनसिजो व्याख्यातः। तेषां संयमने बन्धन आकुलो व्यग्र एकः पाणिर्यस्याः सापरा
स्त्री सुरपतितनयेऽर्जुने । जेतैव जैत्रः । जेतृशब्दात्तृजन्तात् 'प्रज्ञादिभ्यश्च' इत्यण्प्रत्ययः।
मनसिजस्य जैत्रः शरस्तं तथाभूतम् । विलोचनस्यार्धमेकदेशम् । कटाक्षमित्यर्थः ।
निरासे विससर्ज ॥
कु[१]सुमितमवलम्ब्य चूतमुच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी। |
कुसुमितमिति ॥ इभकुम्भवत्पृथुभ्यां स्वनाभ्यामानतमङ्गं यस्याः सा।'अङ्गगात्रकण्ठेभ्यश्च' इति ङीप्। काचित्तनुस्तन्वी । 'चोतो गुणवचनात्' इति विकल्पात्र ङीप् । कुसुमितमुच्चैरुन्नतं चूतमवलम्ब्य । अत एव चूतलतायोगाद्विसृतो विस्तृतो गुणो ज्या यस्याः सा । 'विसृतं विस्तृतं ततम्' इति, 'मौर्वी ज्या शिञ्जिनी गुणः' इति चामरः। अनङ्गचापयष्टिरिव । आकृष्टमुक्तेति भावः।तदभिमुखं समुन्ननाम समुज्जजृम्भे। अङ्गभङ्गं चकारेत्यर्थः ॥
सरभसमवलम्ब्य नीलमन्या विगलितनीवि विलोलमन्तरीयम् । |
सरमसमिति ॥ अन्यापरा विगलितनीवि श्लथवन्धनमत एव विलोलं स्थानचलितम्। नील्या रक्तं नीलम् । 'नील्या अन्वक्तव्यः' इत्यन्प्रत्ययः । अन्तरीयं परिधानमवलम्ब्य हस्तेन गृहीत्वा सरभसं सत्वरमभिपतितुं मनो यस्याः सा तथोक्ता । गन्तुमुद्युक्तेत्यर्थः। तथापि ससाध्वसेव । न तु वस्तुतः ससाध्वसा । किं तु च्युतेन गलितेनरशनागुणेन संदिता बद्धा सत्यवतस्थे स्थिता। 'बद्धे संदानितं मूतमुदितं संदितं सितम्' इत्यमरः । कर्मणि क्तः । 'द्यतिस्यतिमास्थाम्-' इतीकारः ।।
काचिद्युग्मेनाह-
यदि मनसि शमः किमङ्ग चापं शठ विषयास्तव वल्लभा न मुक्तिः। |
यदीत्यादि । तव मनसि शमः शान्तिर्यदि । अस्तीति शेषः । अङ्ग भोः, चापं किम् । किमर्थमित्यर्थः । किं तु हे शठ हे वञ्चक, तव विषयाः शब्दादयो वल्लभाः प्रियाः । न तु मुक्तिः । तदेव द्रढयितुमाह--भवतु । को दोष इति शेषः। यद्यहं रागी तर्हि किमिति भवतीर्न गणयामीति शङ्कां निवारयति--दिशतीति । तव हृदये मनसि हदये-