पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६५
एकादशः सर्गः ।


मनोभिः सोद्वेगैः प्रणयविहतिध्वस्तरुचयःसगन्धर्वा धाम त्रिदशवनिताः स्वं प्रतिययुः॥६३॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये दशमः सर्गः।

  स्वयमिति ॥ एवं हरिसुतेऽर्जुने स्वयमखण्डेनाविलुप्तेन तपसा शतमखमिन्द्रं संराध्य प्रीणयित्वा परोच्छित्त्या शत्रुवधेन लभ्यां साध्यां लक्ष्मीं राजलक्ष्मीमभिलषति सति सोद्वेगैः कार्यसिद्ध्यभावात्सनिर्वेदैर्मनोभिरुपलक्षिताः । किं च । प्रणयविहत्या प्रार्थनाभङ्गेन ध्वस्तरुचयो नष्टकान्तयः सगन्धर्वा गन्धर्वसहितास्त्रिदशवनिताः स्वं धाम स्वस्थानं प्रतिययुः । शिखरिणीवृत्तमेतत्-'रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी' इति लक्षणात् ॥

  इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्या- व्याख्यायां घण्टापथसमाख्यायां दशमः सर्गः समाप्तः ॥


एकादशः सर्गः।


अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया।
आजगामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ १॥

  अथेति॥अथाप्सरसां प्रतिप्रयाणानन्तरम् । पाको नाम कश्चिद्राक्षसस्तस्य शासन इन्द्रः। नन्द्यादित्वाल्युप्रत्ययः । तयाप्सरोमुखाच्छ्रुतयामर्षाद्विषद्वेषान्निसर्गाच्च या जितेन्द्रियता तयागन्तुकानागन्तुकोभयविधहेतुकया प्रतीतो हृष्टः सन् । 'ख्याते दृष्टे प्रतीतः' इत्यमरः । जिष्णोरर्जुनस्य । 'जिष्णुः शक्रे धनंजये' इत्यमरः । आश्रममाजगाम। अत्रामर्षनिसर्गयोर्जितेन्द्रियताहेतुकं काव्यलिङ्गं स्फुटमवगम्यते ॥

  किमिन्द्रो निजरूपेणैवागतो नेत्याह-

मुनिरूपोऽनुरूपेण सूनुना ददृशे पु[१]रः।
द्राघीयसा वयोतीतः प[२]रिक्लान्तः किलाध्वना ॥ २॥

  मुनिरूप इति ॥ मुने रूपमिव रूपं यस्य स मुनिरूपः। मुनिवेषधारीत्यर्थः । स इन्द्रोऽनुरूपेण । दर्शनप्रदानयोग्येनेत्यर्थः । सूनुना पुत्रेणार्जुनेन पुरोऽग्रे ददृशे दृष्टः । कथंभूतः। वयो यौवनादिकमतीतो वृद्धः। 'द्वितीया श्रित-इत्यादिना द्वितीयासमासः। द्राघीयसातिदीर्घेण । 'प्रियस्थिर-'इत्यादिना दीर्घशब्दस्य द्राघादेशः । अध्वना । अध्वगमनेनेत्यर्थः । परिक्लान्तः परिश्रान्तः । किलेत्यलीके । वृद्ध इव दूराध्वश्रान्त इव स्थित इत्यर्थः । 'इव' इति पाठे स्पष्टार्थः ॥


  1. 'हरिः' इति पाठः
  2. 'परिश्रान्त इवाध्वना' इति पाठः