पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
एकादशः सर्गः ।


केवलं वेष एवेत्यर्थः । 'केवलः कृत्स्न एके च', 'केवलं चावधारिते' इत्युभयत्रापि शाश्वत:॥

  वेषविरोधमेवाह-

युयुत्सुनेव कवचं किमामुक्तमिदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥ १५ ॥

  युयुत्सुनेति ॥ युयुत्सुनेव योद्धुमिच्छुनेव त्वया। युधेः सन्नन्तादुप्रत्ययः । किमिदं कवचं चर्मामुक्तमर्पितम् । तत्र को विरोध इत्यत्राह-हिं यस्मात्तपस्विनः केवले एके। कवचाद्यसहचरिते इति यावत्।ते च ते अजिनवल्कले च।'निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः' इत्यमरः । वसत आच्छादयन्ति । अतस्तपस्विनस्ते कवचधारणं विरुद्धमित्यर्थः ॥

प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे ।
महेषुधी धनुर्भीमं भूतानामनभिद्रुहः ॥ १६ ॥

  प्रपित्सोरिति ॥ किं च। मुक्तिं प्रपित्सोः प्राप्तुमिच्छोः। 'सनि मीमा-'इत्यादिनेसादेशः। अत्र 'लोपोऽभ्यासस्य' इत्यभ्यासलोपः। अतो मुमुक्षुत्वादेव कलेवरे शरीरे नि:स्पृहस्य गतस्पृहस्य । अतोनात्मरक्षार्थे धनुर्धारणं युक्तमित्यर्थः । नापि परहिसार्थमित्याह- भूतानां जन्तूनाम् । 'क्ष्मादौ जन्तौ च भूतानि' इति वैजयन्ती। 'क्रुधद्रुहोरुप- सृष्टयोः कर्म' इति कर्मसंज्ञायाम् कर्तृकर्मणोः कृति' इति कर्तरि षष्ठी। अनभिद्रुहो- ऽहिंसकस्य । 'सत्सूद्विष--' इत्यादिना क्विप् । ते तव महेषुधी महानिषङ्गी भीमं त्रासज- नकं धनुश्च । न समर्थयते शममित्युत्तरेणान्वय: । समर्थयत इति वचनविपरिणाम: कार्यः

भयंकरः प्राणभृतां मृत्योर्भुज इवापरः ।
असिस्तव तपस्थस्य न समर्थयते शमम् ॥ १७ ॥

  भयंकर इति ॥ तथा मृत्योरपरो भुज इव प्राणभृतां प्राणिनां भयं करोतीति भयंकरः । मेघर्तिभयेषु कृञ्' इति खच्प्रत्ययः । 'अरुर्द्विष-' इत्यादिना मुमागमः । असिः खड्गः। तपसि तिष्ठतीति तपस्थः । तपश्चरन्नित्यर्थः । 'सुपि स्थः' इति कप्रत्ययः। तस्य तव शमं शान्ति न समर्थयते न संभावयति । किं शान्तस्य शस्त्रेणेति भावः ॥

  नन्वशान्तस्य किं तपसेत्याशङ्क्य जयार्थमित्याह-

जयमत्रभवान्नूनमरातिष्वभिलाषुकः।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ १८॥

  जयमिति ॥ अत्रभवान् । पूज्य इत्यर्थः । इतरास्योऽपि दृश्यन्ते' इति प्रथमार्थे प्राग्दिशीयस्रल्प्रत्ययः। सुप्सुपेति समासः । 'त्रिषु तत्रभवान्पूज्यस्तथैवात्रभवानपि' इति