सक्तिरित्यर्थान्तरं न्यस्यति– वामेति।जन्तवो वामशीला वक्रस्वभावा हि। स्वभावस्य
दुर्वारत्वादिति भावः ॥
यदुक्तम् 'नान्तरज्ञाः श्रियः' इति, तदेव भङ्ग्यन्तन्तरेणाह--
कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः । |
क इति ॥ संपदोऽशीलेषु दुःशीलेषु विषये न तद्विरुद्धमुच्यते यच्चञ्चला इति । अतः स्तुतिपदे स्तुतिविषये तत्र कोऽपवादः का निन्दा । किंतु क्षुद्राः संपदः साधुवृत्तानपि विक्षिपन्त्येव जहत्येव । तदेव तासां निन्दापदमित्यर्थः । तस्मादर्थो न पुरुषार्थ इति संदर्भार्थः ॥
ननु नार्थमहमर्थये । किंतु वीरधर्ममनुपालयन्वैरनिर्यातनमिच्छामीत्याशङ्क्य तदपि परपीडात्मकत्वादयुक्तमिति श्लोकचतुष्टयेनाचष्टे-
कृतवानन्यदेहेषु कर्ता च विधुरं मनः। |
कृतवानिति ॥ तत्रात्मदृष्टान्तेनैव परपीडातो निवर्तितव्यमित्याशयेनाह-अप्रियैरनिष्टवस्तुभिः संयोग इव प्रियैरिष्टवस्तुभिः सह विप्रयोगो विरहोऽन्यदेहेषु स्वस्यैव देहान्तरेषु । अतीतानागतेष्विति शेषः । मनो विधुरं दुःखितं कृतवान् । कर्ता करिष्यति च । भविष्ये लुट् । तद्वर्तमाने चानुभूयत इति शेषः । इष्टनाशो दुःखहेतुरिति सर्वत्रापि त्रैकालिकसिद्धमिति श्लोकार्थः ॥
संप्रतीष्टसमागमस्य सुखहेतुत्वमाह-
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः । |
शून्यमिति ॥ प्रियसमागम इष्टजनसंयोगे सति शून्यं रिक्तमप्याकीर्णतां संपूर्णतामेति। समृद्धमिव प्रतीयत इत्यर्थः । व्यसनं विपदप्युत्सवैस्तुल्यम् । 'व्यसनं विपदि भ्रंशे' इत्यमरः । विप्रलम्भो वञ्चना । प्रतारणमिति यावत् । सोऽपि लाभाय । किंबहुना प्रियसंगतस्य सर्वावस्थास्वपि सुखमेवेत्यर्थः ॥
प्रकारान्तरेण प्रियवियोगस्य दुःखहेतुत्वमाह-
तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः। |
तदेति ॥ तदा रम्याण्यप्यरम्याण्यमनोहराणि भवन्ति । किंबहुना प्रिया असवः प्राणा अपि शल्यम् । शल्यवदसह्या भवन्तीत्यर्थः । किं च । तदा सबन्धुः सन्नप्येकाक्यसहाय एव । 'एकादाकिनिच्चासहाये' इत्याकिनिच्प्रत्ययः। यदेष्टेन रहितः ॥